Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 122
________________ श्री राम किराण सोर्स זיווחנון अल्पमूल्यक्रयाणकापणे जनानां दीर्घा पङ्क्तिः स्थिताऽऽसीत् । आपणस्तु पिहित एवाऽऽसीत् । एतावता कश्चन जनो हस्ते स्यूतं गृहीत्वाऽऽगतः । स यावदग्रे आगच्छेत् तावता जनैः स सप्रहारं सक्रोधं च पृष्ठे नोदितः । पुनरपि स प्रयतितवान् पुनरपि च जनैः प्रणोदितः । एवं द्वि-त्रान् वारान् प्रवृत्तम् । अतः स कोपादुच्चैः कथितवान् - "यदि यूयमेवमेव मां प्रणोदयिष्यथ तदाऽहमापणमेव नोद्घाटयिष्ये ॥" पत्नी रात्रौ भवान् अतीव विलम्बेनाऽऽगत इति लक्ष्यते । मया घटिकायन्त्रस्य द्वे एवाऽभिघाते श्रुते किल ! पतिः नैवमासीत् प्रिये ! । अभिघातास्तु दशैवाऽपतिष्यन्, किन्तु मयैव तव निद्राबाधा न भवेत्- इति विचिन्त्याऽवरोधितास्ते !! आपणिकः यन्त्रमिदं भवतः पञ्चाशत्प्रतिशतं कार्यभारमल्पीकरिष्यति । ग्राहकः तर्हि कृपया द्वे यन्त्रे ददातु ! १०९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138