Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
| मदर्थं सर्वस्वम् । तथा, राज्ञां प्रतीक्षा तेषां मृगयार्थं च पशु-पक्षिणां मार्गणमेव मम । जीवनस्य परमलक्ष्ये । तत एव च सुखमनुभवाम्यहम् ।" ।
एतन्निशम्य विचारशीलदृक्पातपूर्व हुदहुदपक्षिण्युक्तवती, "भो दास्यव्यसनिन् ! (0) भवान् बाह्यरूपेषु सक्तो भूत्वाऽऽन्तरमूल्यान्युपेक्षमाणो दृश्यते । सीमुर्गस्य सत्ता निःसीमाऽप्रतिरूपा च । किन्तु स सर्वथा दयालुः सत्यतया च राजाऽस्ति । सत्यश्च राजा कदाऽपि स्वीयसङ्कल्पशक्तेर्मूर्खवद् दुरुपयोगं नैव कुरुते । किन्त्वेते पार्थिवा राजानो हि कदाचिन्न्यायिनः प्रायशश्चाऽन्यायिनो भवन्ति । तन्निकटे वसतां जनानां दशा हि नितरां शोचनीया भवति । तेषां सदाऽपि जीवितव्यापायो भवति, ततश्च तैः प्रतिपदं राज्ञो A
मानसमनुवर्तितुं प्रयतनीयं भवति । तेषां वृत्ती राज्ञां कृपामेवाऽवलम्बते। राजा हि 15 वह्नितुल्यः । ततो दूरे एव वासो वरः । समीपं गतानां स यदा कदाऽपि दाहयत्येव ।" IS
___ "एकं प्रसङ्गं श्रावयामि । 'एकस्य राज्ञ एकः सेवक आसीत् । स रूपवान् दृढकायश्च । राज्ञस्तस्मिन् बहु स्नेह आसीत् । स सदा तं स्वपार्वे एव स्थापयति स्म । क्षणमात्रं चाऽपि तस्य वियोगं सोढुमशक्तश्च । राज्ञा तस्मै सुन्दरवसनानि दत्तवानासीत् । । पर्षदि च तं स्वसन्निधावेवोपवेशयति स्म ।'
'अथो राजा शराभ्यासव्यसन्यासीत् । एनं सेवकं स एकत्रोपस्थाप्य तन्मस्तकोपरि EAN च फलं स्थापयित्वा तद्वेधनेन शरक्षेपणाभ्यासं करोति स्म । यदाऽपि स बाणं मुञ्चति
स्म तदाऽस्य सेवकस्य मुखं विवर्णं भवति स्म हृदयं च स्पन्दनाद् भ्रश्यति स्म । यदा च बाणं लक्ष्यं विध्यति स्म तदैवाऽसौ मनोनिर्वृतिमनुभवति स्म । तस्येदृशी चिन्ताचान्तां परिस्थितिं दृष्ट्वा मित्रेणैकेन पृष्टः स कथितवान्, “यदा राजा लक्ष्याच्च्युतो भवति तदा ममैवाऽपयशो, निन्दा मरणचिन्ता च । यदि च स लक्ष्यं साधयति तदा तस्यैव प्रशंसा यशोवादश्च । अतो ममैकैवेच्छा सदा भवति यद् राज्ञो लक्ष्यं सिध्यतु" इति ।' एवं चाऽरे - श्येन ! दास्यव्यसनिनां दशेदृश्येव भवति ।" ।
अथ च त्वरया सारसोऽग्रे आगतः । आगतमात्रेणाऽपि तेन स्वकथनमारब्धम्, "अरे वयस्या ! अहं समुद्रतटे शैवलखचितायां भूमौ निवसामि । स्वभावतोऽनाक्रमक्रस्य विहगस्य मम विषये कस्यचिदपि न काऽप्यापत्तिरस्ति । किन्तु ममैवैतद् दुर्भाग्यं यदहमेकल एव विषादयुतस्तस्यां क्षारमय्यां पृथ्व्यां तिष्ठन् सदा मधुरजलेच्छया पीडितो भवामि । अहं हि सामुद्रपक्षी नाऽस्मि, तथाऽपि समुद्रतट एवाऽऽमरणं मे निवासः ।
सामुद्रं जलं सर्वदैव मे पदस्पृगेव वर्तते तथाऽपि तद्विन्दुमात्रमपि नैव पिबाम्यहम् । एवं | सत्यपि समुद्रे मम तथा स्नेहो यथा, तत एकोऽपि बिन्दुर्यधुच्छल्य बहिर्निपतेत् तदा ।।
-
-
४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138