Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 92
________________ ................................................. : भवति सा त्रिदुर्गी । तस्य च त्रयाणां दुर्गाणां प्रथमे रौप्यमये दुर्गे वाहनानि, स्वर्णमये द्वितीये: तिश्चः, रत्नमये च तृतीयवप्रे द्वादशाऽपि पर्षदोऽवस्थिता द्रक्ष्यामः । तस्मिश्च तृतीयवप्रे बहुमध्यभागे: रत्नमयपीठिकोपरिस्थिते महाघे स्वर्णमयसिंहासने उपविश्य यदा भगवन्तो देशनासुधां पाययिष्यन्ति, : अहा हा ! तदा सर्वं भेदं विस्मरिष्यामः, केवलं चिन्मयः, चैतन्यमयश्चाऽभेद एवोल्लसिष्यति । तत्सुधां पीत्वा परमतृप्ता भविष्यामः ।" "तर्हि मित्र !" तत्सम्मुखं दृष्ट्वा "चलतु, सत्वरं यातः, प्रभोरेकोऽपि शब्द:: श्रवणस्याऽगोचरतां यथा न भजेत् तथा कुर्वः" । तौ सत्वरं यातः । अद्याऽपि समवसरणविषये सागरदत्तेन बहु प्रष्टव्यमस्ति, वीरदत्तेन: च बहु ज्ञातव्यमस्ति । परं तौ कौ ? किं तावेवाऽस्माकं कथानायकौ ? न, तौ तु सामान्यौ: कौचिद् रत्नवणिजौ । नीति-न्यायेन व्यवहारस्तयोः शोभा । द्वयोरपि सप्ताट्टालिकात्मके हर्ये : हस्तिनागपुर-नगरस्य राजमार्ग शोभयतः स्म । तयोरत्राऽन्यान्यपि बहून्यापणान्यासन् । येषु: तयोः पुत्रा व्यवहरन्ति स्म । यदाऽत्र पञ्चाशद्वर्षेभ्यः पूर्वमागतं तदा तयोः पार्वे किमपि नाऽसीत् । अकिञ्चनौ: सर्वथा तावास्ताम् । परं शनैश्शनैरभ्युदयं प्राप्तवन्तौ तौ सर्वगामिनी तावती विभूतिमपि प्राप्तौ; : येन तन्नगरे गण्येषु श्रेष्ठिवर्येष्वन्यतमौ परिगणितौ सज्जन-सम्मतौ च जातौ । एतावता सागरदत्तस्य गृहवसतौ कुम्भगणिप्रमुखाः साधवश्चतुर्मासी स्थिताः । स: महताऽऽदरेण तेषां सपर्यां कुर्वंस्तेभ्यो धर्ममपि श्रुतवान् । संगतेः फलस्वरूपेण स परमः श्राद्ध:: समजनि । तस्य च षण्णामपि पुत्राणामुपरि दुहितैकाऽऽसीत् । तस्या नाम प्रियदर्शनेति । साऽपि: तदा जिनधर्मंकताना जाता । परमद्य तस्या उपरि तन्निमित्तं च सागरदतोपर्येका महत्यापत्ति-: रापतिताऽऽसीत् । का सा ? तां तु सागरदत्त एव कुम्भगणिने विस्तरेण श्रावयिष्यति । : अद्य किन्तु हस्तिनागपुरनगरे नयनानन्ददः परममहोत्सवः । यतोऽद्य प्रभोर्ज्ञान-: कल्याणकमहस्तत्र । देवा अपि तस्मिन्नगरे, तस्मिन्नुद्याने, तत्र समवसरणे चलितासनाः प्राप्तप्रेरणा:: भक्तिभरनिर्भराः प्रभोः सेवायामागच्छन्तो दृश्यन्ते स्म । तेन सर्वोऽप्याकाशपथोऽवरुद्ध आसीत् । : अन्यतोऽद्वैतानन्दकल्लोले मग्ना जानपदाः श्राद्धादयः समवसरणं द्रष्टुमुत्सुका वरयात्रया महत्या विभूत्या महता परिकरेण च तस्मिन्नुद्यान आगच्छन्ति स्म । तेन भूमार्गोऽपि सम्मर्दमयः सञ्जात : आसीत् । आभाति स्म यत् - नगरं रिक्तीभूय वारिपूरवन्महता रंहसा सहस्राम्रवणोद्याने : समवसरणं व्याप्नुवदासीत् । एतावत्यपि सम्म प्रभोः प्रभावेण न कोऽपि कमपि बाधतेऽवरोधी: भवति स्म वा । हर्षपूर्णमनस्काः सर्वेऽपि तां तस्य शोभा महताऽऽनन्देन पश्यन्तोऽग्रे गच्छन्तिः ७९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138