Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 93
________________ ................................................. एतादृशि समये च परमो गण्यः श्रावक: सागरदत्तोऽपि स्वपुत्रादिपरिकरण, स्वप्रियमित्र-: वीरदत्तेनाऽन्यैश्च कैश्चिन्मित्रैःसह त्वरयाऽग्रे गच्छति स्म । सर्वेषां मनांस्युत्साहेन पूर्णान्यासन् । तावतैवाऽकस्मात्सागरदत्तस्य प्रथमः पुत्रोऽङ्गल्या किंचिद्दर्शयन् – 'तात ! भ्रातरः ! मित्राणि !: पश्यन्तु, स एवैष आम् स एव' इति । समेषामपि दृष्टिस्तत्र निपतिता, यत्र च कश्चिद्वामन इन्द्रजालादीन् दर्शयन् स्वं वेष्टयित्वा: स्थिते जनसमूहे विस्मयमावहयन्नासीत् । सर्वे तस्य हस्तलाघवं कौशलं च दृष्ट्वा मुग्धाः जाताः । “अहोऽद्भुतम् !" इत्यादय उद्गारा द्रष्टुणां मुखेभ्यः सहसा निर्गच्छन्ति स्म । : ___ धनदस्तु जातिवैरिवदुन्मत्तकवद् हस्तावास्फोट्य तालरवं कुर्वाणो - "अद्य तु तं: कथमपि ग्रहीष्याम्येव, तत्पश्चाच्च ममाऽऽवुत्तस्य सम्पूर्णामवितथां स्थिति प्राप्स्याम्येव ।: पश्याम्यद्य कुत्र गच्छति स वराक:?" इत्युक्त्वा वेगेन धावमानः सम्म मार्गं कुर्वाणो यावता. वामनाभ्यणे-ऽगच्छत्तावता स वामनः- "मम ग्रहणाय वृथा प्रयासो माऽस्तु । भगवतः: समवसरणेऽहं स्वयमेव भवतां हस्तयोरापतिष्यामि" इत्येवं स्वगतं वदन् धावित्वा च: कुत्रचिज्जनसमूहे निलीनो जातः । तदा च धनदोऽपि हूँकारानामुञ्चन्, हस्तौ चाऽऽमृशन्, करेण: शिर: कण्डूयमानः सागरदत्तादिपावें गत्वा वदति स्म- "अद्य सप्तमं वारं स हस्तागतोऽपि च्युतः" । . . . तदा, इतिवृत्तस्य हार्दमजानाना वीरदत्तादय उद्घाटितमुखा विस्फारितनेत्रा अनिमेषं: सागरदत्तं पश्यन्तस्तिष्ठन्ति स्म । सागरोऽपि संशयविच्छित्तये भणति स्म यत् - "मित्राणि !: एका समस्याऽद्याऽस्माकं समेषामपि बाधते । तस्याः परिहारे निमित्तकारणमेषो वामनो: भवितुमर्हति । अत एव मयैतद्ग्रहणाय धनदो नियुक्तः, परं स सप्तमवेलायामपि तं ग्रहीतुं: नैवाऽशक्नोत् । सा का समस्या, तां त्वहं यदा भगवतो गणिने कथयिष्यामि, तदैव यूयं शृणुथ ।: अधुना तावद्वयं सत्वरं समवसरणमेव सकलापत्तिपरित्राणक्षमं समाश्रयामः ।" । ससुरासुरायां पर्षदि भगवानपि परमोऽरनाथः प्रविशति स्म । सर्वेऽभ्युत्थिताः सन्तः: प्रभुमक्षतादिभिर्वर्धापयन्ति स्म । भगवानरनाथोऽपि चैत्यवृक्षं त्रिः प्रदक्षिणयित्वा, "नमस्तीर्थाये"-: त्युदित्वा मृगेन्द्रासने पूर्वाशाभिमुखमुपविशति स्म । तत्समकालमेव चाऽन्यास्वपि त्रिषु दिक्षुः व्यन्तरविरचितानि प्रभोः प्रतिबिम्बान्युपविशन्ति स्म । पश्चाच्च सर्वोऽपि पार्षदः स्वस्वोचिते. स्थाने निषीदति स्म तिष्ठति स्म वा । शक्रा: पुनरुत्थाय प्रभोर्महिमाभरां स्तुति प्रकुर्वन्ति स्म ।: शक्र उन्नमितवज्रहस्तस्तुमुलं निषेधति । पश्चाच्च भगवतः समुद्रगभीरस्वरेणोत्तमै शब्दैः: सर्वाङ्गवाहिनाऽर्थेन, मालवकैशिक्यादिग्रामरागबन्धुरा देशना प्रारभ्यते स्म । सर्वेऽपि जनाः ...... ८० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138