Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
..................................................।
.
.
.
.
: स्म। तत्र द्वार्येव स सङ्केतितवान् सर्वानपि पुरुषान् यद् - 'अन्तर्गत्वा युष्माभिः:
कथाकथनार्थमनुरोद्धव्योऽहम्' । पश्चादन्तः प्रविश्य सकला अपि गणिनीर्वन्दित्वा द्वारमण्डपः उपविष्टाः । तत्र च सर्वाभिरपि गणिनीभिः सह तास्तिस्रोऽपि कौतुकेन तद्दर्शनार्थमागतवत्यः।: तदा च पूर्वमेव कृतसङ्केतो राजपुरुषो वदति स्म - "अयि वामन ! कामपि कथां कथयतुः तावत् ।"
स वदति स्म - "वृत्तं कथयानि कथां वा ?" तदा सङ्केतितो जनो वदति स्म "अरे ! को भेदस्तयोः ?"
स वक्ति स्म - "महाशय ! महापुरुषाणां जीवनचरित्राणि कथेत्युच्यते, अनुभूतं चः वृत्तमिति कथ्यते ।"
तदा सोऽपि वामनो वीरभद्रनामकस्य वृत्तमारभते स्म । तद् - प्रियदर्शनापरिणयनादारभ्य: तां च त्यक्त्वा स रात्रौ निर्गत इतिपर्यन्तमुक्त्वा 'अधुना मम राजसेवाकालो वर्ततेऽतो गच्छामि': इत्युक्त्वा स उत्थितः । तदा तमवरुध्य प्रियदर्शना सादरमपृच्छत् - "अयि ! कथयतु तावत्, : सोऽग्रे कुत्र गतः ?" इति ।
सोऽवदत् - "अहं तु परस्त्रिया सह कुलकलङ्कभयाद् नैव संभाषे" |
साऽवदत् - "दाक्षिण्यमेव कुलीनस्य प्रथमं लक्षणम् । दाक्षिण्येन सम्भाषणं च न: कलङ्काय जायते" ।
सोऽवदत् - "कल्ये कथयिष्यामि" ।
पश्चाच्च राजसभायां गच्छति स्म । राजपुरुषा एव राज्ञे सर्वं यथातथं निवेदितवन्तः राजा च विस्मितो जातः ।
अथ द्वितीये दिवसे तथैवाऽऽगत्य स तत्रैवोपविशति स्म । सर्वाः प्रथममेव उपस्थिता: आसन् । तदा स "सिंहलद्वीपगमनादारभ्य यानपात्रं भग्नम्" - इत्येतावदन्तं कथयति स्म । पश्चादुत्थाय यावद् याति तावदनङ्गसुन्दर्यपि समुत्थाय तन्मार्गमवरुध्याऽवदत् "भद्र ! कथयतुः कृपया यदने किं जातमिति ।" __ स वक्ति स्म "अधुना गन्तव्यमस्ति, कल्ये कथयिष्यामि" ।
पुनरपि तृतीयदिवसे आगतः स कथामनुवर्तयति स्म - "रत्नप्रभां सुव्रतागणिनीप्रतिश्रये: मुक्त्वा गतः" इत्यन्तम् । तदा रत्नप्रभाऽपि वदति - "तदग्रे किं जातम् ?" सोऽपि वदति: - "पश्चात्कथयिष्यामि ।" एवं कृत्वा तिस्रोऽपि भाषयन्ति स्म । स वामनो नगरं भ्रमन्: नागरान्विस्मापयति स्म ।" इत्युक्त्वा कुम्भगणाधिपेन सागरदत्त उक्त:- "स एवैष वामनो यं ग्रहीतुं भवता स्वप्रथमपुत्रो धनदो नियुक्तः । स एवैष वामनो य समवसरणमागच्छतां भवतां:
........................
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138