Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Preseौर्भाग्यभुत सौभाग्यम् । Bा कथा
मुनिविश्वचन्द्रविजयः (डेलावाला) बहुकालपूर्वम् आङ्ग्लदेशस्य स्कोटलेन्डमध्ये श्रीक्लार्कनामैकपरिवारो वसति स्म । दम्पती तथा नव बालका इत्येकादशानां परिवारः आसीत् । तेषामेकस्वप्न आसीद् यदस्माभिः अमेरिकादेशं पर्यटितुं गन्तव्यम् । परं कथं गमनीयं तत्तु चिन्तनीयमासीत् । यतः परिवारो बृहदासीत् किन्त्वर्थलाभोऽत्यल्प आसीत् । ततो महद्धनं तु रुग्णचिकित्सादावेव व्यापृतं भवति स्म । सर्वेऽपि स्वस्य स्वस्याऽर्थलाभाद् यावच्छक्यं धनमारक्षन्ति स्म । एकदा तेषां स्वर्णिमदिनोदयो जातः । उक्तप्रकारेणाऽर्थं सञ्चय्य सञ्चय्य अमेरिकागमनार्हो महदर्थसञ्चयो जातः ।
___ श्रीक्लार्कपरिवारेण तु अमेरिकागमनार्थं 'पासपोर्ट' 'वीझा' इत्यादि सज्जीकृत्य प्रस्थानदिनोऽपि निश्चितः । अमेरिकाप्रयाणाय सप्तदिनानि शेषाण्यासन् । तदैव ह्येका दुर्घटना जाता । श्रीक्लार्कस्य लघुपुत्रः शुना दष्टः । तद्योग्यान्यौषधानि तज्ज्ञवैद्येन दत्तानि परं तत्कालीनराजनियमानुसारेण चतुर्दश सूच्यौषधानि यावन गृह्यन्ते तावद् गृहस्य बहिर्न निष्क्रम्येत । एतन्नियमानुसारेण श्रीक्लार्कपरिवारोपरि तडित्पातवद् हृदयकम्पोऽभूत् । अनेकवर्षाणामतिप्रयासेन स्वप्नं सत्यापयितुमवसरः सम्प्राप्त आसीत् । किन्तु तदवसरो वृथा जातः ।।
तदा तु स्कोटलेन्डस्य तत्कालीनराजनियमोल्लङ्घनाय विचारयितुमप्यशक्यमासीत् ।
श्रीक्लार्केण तु भगवते स्वलघुपुत्राय च बहूपालम्भो दत्तः । अमेरिकागमनार्थं तस्य महदाकर्षणमासीत् । अतस्तेन गृहैककोणेऽश्रुपातोऽपि कृतः । स तु गृहे सर्वैः सह मौनेन स्थितः । 'इयमापत्तु लघुपुत्रेणैवोत्पादिता' इति तस्य मतिरासीत् ।
एतत्प्रसङ्गानन्तरं सप्तदिनानां पश्चादेको दुःखदारुणो वृत्तान्तोऽखिलजगति प्रसृतवान् । सर्वत्र हाहाकारो जातः । किन्तु श्रीमत्क्लार्कस्य परिवारेऽमन्दानन्दोऽभूत्, यतो यत्प्रवहणद्वारा श्रीक्लार्कपरिवारेण अमेरिकायात्रा करणीयाऽऽसीत् तत्प्रवहणमेव एटलान्टिकमहासागरे तत्रस्थमहाहिमशिलया सह सङ्घट्य त्रुटित्वा चाऽपारे जले निमग्नम् ।।
यदि लघुपुत्रः शुना न दष्टोऽभविष्यत् तर्हि क्लार्कपरिवारोऽपि प्रवहणेन सहैव समुद्रतलमप्राप्स्यत् ।
___ तत्प्रवहणमासीत् 'टाइटेनिक्' इति । अस्या आपत्ते रक्षणार्थं क्लार्केण भगवतो महानाभारो व्यक्तः कृतः, उपालम्भस्य क्षमाऽपि प्रार्थिता । श्वदष्टः पुत्रश्चोत्पाट्याऽऽलिङ्गितः । यज्जातं तच्छुभमेव जातमिति च सानन्दं चिन्तितम् । ★
९८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138