Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 109
________________ ........................... . . . . . . . मार्गेऽतिष्ठत् । अन्ततश्च स एवैष वामनो यश्चाऽत्र समवसरणे त्वत्पश्चादुपविष्टोऽस्ति । श्रेष्ठिन् !: तं पश्यतु तावत्" इति । एतदन्तरे स वामन उत्थाय कुम्भगणिने नमस्कृत्य सर्वानुपस्थितान्पार्षदान्वि-: स्मयाक्तमनसः कुर्वन् वदति स्म - "यथा भगवता कथितं, सर्वं तथैवाऽस्ति ।" पश्चात्स. सागरदत्तश्रेष्ठिने नमस्यति। सर्वे स्व-स्वस्थाने गच्छन्ति स्म । किन्तु शतशो जनास्तं. वामनमनुसरन्तः सुव्रतागणिनीप्रतिश्रये गच्छन्ति स्म । तत्र गत्वा स सर्वप्रथमं वामनत्वकारिगुटिका: स्वमुखानिस्सारयति स्म येन स कृष्णवर्ण एव तादृशः स्वाभाविकाकृतिर्भवति स्म ।: यादृशोऽनङ्गसुन्दर्या दृष्टपूर्वः । पश्चात्स तामपि कृष्णवर्णकरां गुटिकामपनयति स्म येन पुनस्तादृशोः जातो यादृशो प्रियदर्शनया रत्नप्रभया च दृष्टः । तास्तिस्रोऽपि लज्जावनतमस्तकाः सुव्रतागणिन्या:: पृष्ठे निषीदन्ति स्म । सोऽपि वीरभद्रः सुव्रतागणिनो भक्तिभरं नमति स्म स्वकृतज्ञतां ख्यापयन् ।। अथ सुव्रतागणिनी वदति- "महाशया ! यत्र धर्मरतो गच्छति, तत्र स सुखमेव: प्राप्नोति । अत्र नाऽस्ति मनागपि सन्देहः । केवलमद्य वयमरनाथस्वामिने किञ्चित् प्रक्ष्यामो: यत्-शास्त्रेषु श्रूयन्ते - "भोगाः सत्पात्रदानानुभावात्" इति । तर्हि किमनेन वीरभद्रेण पूर्वभवेषु: कृतं येनाऽयं भोगसम्भारभाजनं जात: ? भविष्यति च किमस्य भविष्यति ? इति ।" : सर्वेऽपि चलन्ति स्म समवसरणे । सुव्रतागणिनीमुख्याः शतशो जनास्तत्र देवच्छन्दके: भगवन्तं प्रणम्य यथावसरं पृच्छन्ति स्म महाभागस्य महाभाग्यकारणम् । भगवानपि गभीर-: स्वरेणाऽवदत्- "इतस्तृतीये भवेऽहं प्राग्विदेहे राजाऽभवम् । तदा च राज्यं त्यक्त्वा दीक्षां. गृहीत्वा चतुर्मासोपवासान्ते पारणाय भ्रमनासम् । तदा वीरभद्रजीवेन श्रेष्ठिपुत्रेण जिनदासेन: भक्तिभरं महदुल्लासं मम पारणं कारितमासीत् । तेनैवैनां भोगसमृद्धिमयं प्राप्तवानस्ति । तत्र भवे: स जिनदासश्रेष्ठी तत्प्रभावेण मृत्वा ब्रह्मलोक उत्पन्नः । ततोऽपि च्युत्वाऽत्रैव जम्बूद्वीपस्यैरवते: काम्पिल्यपुरे महेभ्यो भूत्वा महाश्रावकत्वं पालयित्वा समाधिना कालं कृत्वा च द्वादशेऽच्युते. कल्पे जन्म प्राप्तवान् । तस्माच्च च्युतोऽयमिदानी वीरभद्रोऽभवत् । जिनदासभवे यद्बीजं: रोपितं तदधुना वटवृक्षोऽभवत् ।" "जनाः ! पुण्यानुबन्धिपुण्यस्यैतत्तु पुष्पमात्रम्, तस्याऽन्तिमो विपाकस्तु मोक्षसामग्री: मोक्षसाधनाभिमुखता च । भद्रा ! धर्म एव प्रधानपुरुषार्थः । तस्मिन्सत्येव सर्वेऽप्यन्ये: पुरुषकाराः स्वफलायाऽलम् । यथैतस्य वीरभद्रस्येति । ततो धर्मे नितरां निरतास्तिष्ठन्तु भद्राः।": .......... . . . . . . . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138