Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 107
________________ . . . . . . . . .................................................. तदा रत्नप्रभा वदति स्म- "प्रियतम ! एष तु वीतरागस्तीर्थंकरो जिनदेवः । सर्वासामपि: देवतानां परमः श्रेष्ठः प्रथमश्च । अन्ये सर्वेऽपि समोहाः किन्त्वेष मोहातीतो वीतरागः सर्वज्ञः: सर्वसमर्थः शाश्वतानन्दे लीनश्च । प्रिय ! एष एवाऽऽराध्यो ध्येयो वा" । "तदा तस्या जिनधर्मैकतानतां दृष्ट्वा रञ्जितमनस्को वीरभद्रो न किमप्यवदत् । केवलं: मधुरेण हास्येन तदभिमुखं पश्यंस्तिष्ठति स्म । अथाऽन्यदा स तामकथयत्-"भद्रे ! चलत्वद्य: दक्षिणभरते क्रीडितुं गच्छावः" । द्वावपि विद्यया पद्मिनीखण्डपत्तने सुव्रतासाध्व्याः प्रतिश्रय-: बहिरागतौ । तत्र गत्वा "प्रिये ! क्षणकालं तिष्ठ । अहमाचम्याऽऽगच्छामि" - इत्युक्त्वा वीरभद्रः किञ्चिद्: दूरं गत्वा पुनः प्रत्यागतः । किन्तुं निलीय तद्रक्षणार्थं तत्रैव स्थितः । सा तं द्रष्टुं न पारयति: स्म । बहुकालं यावत् तं प्रतीक्ष्याऽन्ते सा उच्चस्तरां रोदनमारब्धवती- "प्रिय ! क्वाऽधुनाः गतोऽसि । मा मां पीडय । प्रत्यक्षो भव" इत्येतांस्तस्या रोदनशब्दान् श्रुत्वा सुव्रतागणिनी. करुणार्द्रा मध्यरात्रेऽपि प्रतिश्रयस्य द्वारमुद्घाटयति स्म । तां च सान्त्वयित्वा स्ववृत्तान्तं पृच्छति: स्म । साऽपि यथातथं कथयति स्म । तदा गणिन्युक्तवती __ "भद्रे ! नितरां श्रान्ताऽस्वस्था च दृश्यसे । आगच्छ, प्रतिश्रयान्तर्विरामं कुरु": इत्युक्त्वा च सुव्रतागणिनी तामन्तर्नयति स्म । तदा वीरभद्रोऽपि समुचिते स्थाने गतां तां विज्ञायः ततश्चलति स्म । स वामनस्य रूपं करोति स्म । तत्रैव च पद्मिनीखण्डपुरे भ्रमति स्म । जनान्: विस्मापयन्नुल्लासयंश्च । इतः प्रियदर्शनानङ्गसुन्दौँ रत्नप्रभामपृच्छतां यत् - 'भवत्या आर्यपुत्रः कीदृशः' ?: इति । साऽपि कथयति स्म । तदा प्रियदर्शना वदति स्म- "केवलं बुद्धदास इत्यभिधैव: विसंवदति मे भर्तुः।" अनङ्गसुन्दर्यपि - "बुद्धदास इत्यभिधा शुक्लश्च वर्णो विसंवादी" इति वदति स्म ।: तास्त्रयोऽपि शील-स्वाध्याय-सेवामग्नाः प्रतिश्रये सुखसुखं कालं यापयन्ति स्म । अन्तराऽन्तरा स वामनोऽपि ता दृष्ट्वा चित्तेऽत्यन्तमानन्दसन्दोहं प्राप्नोति स्म । विचारयति स्मः च- "मम पत्न्यो न केवलं लावण्यवत्यः, किंतु शीलसलिलसम्पूर्णा अपि !" इतश्च तासां त्रयाणामपि विशुद्धशीलपालनं नगरे सर्वत्र चर्चाया विषयो जात आसीत् ।। सा च वार्ता प्रसरन्ती राजकुले प्रविशति स्म । सर्वे सभासदः कथयन्ति स्म राज्ञे - "ताभिः ।। शीलसमाधिवतीभिः सम्भाषयितुमपि न क्षमः कोऽपि पुरुषः ।" राजा विस्मयगर्ने पतितः ।। तावतैव स वामनो विजृम्भते स्म राजसमक्षमुपस्थितो भूत्वा- "महाराज ! अहं शपथं गृह्णामि: यत्ता भाषयिष्यामि" इति । स मायावामनः कतिपयै राजपुरुषैः सह तत्र प्रतिश्रये आगच्छति: . ९४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138