Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 106
________________ ............................................... .. सर्वं प्राभातिकं समाप्य ते द्वे अपि प्रतिश्रये आगच्छतः स्म । अनङ्गसुन्दरी प्रियदर्शनाया: : उपस्थितावेव सुव्रतायै सर्वं स्ववृत्तान्तं कथयति स्म । प्रियदर्शनाऽपि तच्छ्रुत्वा "भगिनि ! स: ते प्रियो वर्णेन कीदृश आसीत् ?" "सखि ! कृष्णवर्णीय आसीत् ।" "अहो ! केवलं वर्णमेव विसंतदति, अन्यत्तु सर्वं मम भर्तुस्वैिव तवाऽपि प्रियस्य ।": सुव्रताऽपि गणिनी प्रियदर्शनायै कथयति"प्रियदर्शने ! एषा तवैव धर्मभगिनी । अतस्त्वमेवैतां प्रतिजागृहि ।" ते द्वे अपि तत्र तिष्ठेते - धर्माराधनरते । इतश्च- वीरभद्रोऽपि फलकमासाद्य समुद्रं तीर्खा यावता कूलं प्राप्तस्तावता: रतिवल्लभनामकेन विद्याधरेण दृष्टः । स तं वैताढ्यशिखरेऽनयत् । मदनमञ्जुकानाम्न्याः स्वपत्न्याः: पुत्रत्वेन समर्पितश्च । पश्चाच्च रहसि शान्ते स्थले त्रयोऽपि स्थिताः । वीरभद्रः स्वोदन्तं: कथयामास । पश्चाच्च सोऽवदत्- "तात ! त्वमसि मे सत्यं पिता । यदि त्वं नाऽभविष्यस्तदा। कस्मिन्प्रदेशेऽस्थास्यमहम् ?" "पुत्र ! मैवं वद । पुण्यवतां कुत्राऽपि विपत्तयश्चिरकालीन्यो नैव भवन्ति । परं वत्स !: हर्षस्थाने एवं शोकः कथम् ?" "तात ! मम प्राणप्रियाया अनङ्गसुन्दर्याः किं जातं स्यात् ? इति चिन्तैव मामर्दतितराम् ।": "तदा रतिवल्लभो विद्यामाभोगिनीं प्रयुङ्क्ते स्म । तया च तत्प्रियायाः सर्वमप्युदन्तं: : विज्ञाय तस्मै कथयति स्म । तदा "स्वप्रियाऽत्यन्तं समुचितं स्थान प्राप्तवती" एवं विचार्य: स विगतचिन्तः स्वस्थश्चाऽभवत् । अथ समुद्रमुत्तीर्य तेन स्वमुखाद् गुटिकाऽपसृता, येन स श्वेतवर्णोऽभवत् । इतश्च तेन: स्वनाम "बुद्धदास" इति कृतम् । तं च महासत्त्वं विज्ञाय रतिवल्लभेन वज्रवेगवतीनामस्वपल्यां: : जाता 'रत्नप्रभा'नाम्नी पुत्री परिणायिता । तया सह प्रवरान्भोगान्भुनक्ति स्म सः । अन्यदा गवाक्षस्थितेन तेन विद्याधरा कुत्राऽपि गच्छन्तो दृष्टाः । स पार्श्वस्थितां रत्नप्रभां: पृच्छति स्म-"प्रिये ! एते कुत्र गच्छन्ति ?" सा वक्ति स्म-"एतत्पर्वते शाश्वतार्हत्प्रतिमा वन्दितुं गच्छन्ति ।" तदा सोऽपि रत्नप्रभया सह तत्र गच्छति स्म । वन्दते च प्रतिमाः । करोति स्म: गीतनृत्यादीनि । कथयति स्म पश्चात् - "प्रिये ! मम कुलदेवस्तु बुद्धनामाऽस्ति । अयं तुः कश्चिदपूर्व एव" । . . . ९३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138