Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
.
.
.
.
.
.
.
.
.
.
................................................
"कृतकोऽपि यः सम्बन्धो बद्धस्तस्य वियोगोऽपि कियान्दुस्सहो भवति । यदि वाऽहं: महान्कृतघ्नः । मयोपकारिणः श्रेष्ठिनः प्रत्युपकृतं न । तां विनयवतीमपि सन्तुष्टां नैवाऽकरवम् ।। किञ्चिदिव न्यूनं कृत्वैवाऽऽगतोऽहं" इति विचार्य तस्योद्वेगो वर्धते स्म ।।
"तहि किमधुना यानानि निवर्तयानि ? पुनस्तत्र गच्छानि ? श्रेष्ठिनमानन्दयानि ?: विनयवतीं रुदती निवारयाणि ? यत्-स्वसः ! तव भ्राता त्वत्तोऽवियुक्त एव सर्वदा स्थास्यति?": इति । आवेगोद्रेकेण स आसनादुत्थितः क्षितिजं यदा सूर्यनारायणोऽवगाढस्तदा तस्य हृदयमपिः विवेकप्रकाशेन पूर्णं जातम् ।
"न, नैव । अहमस्मि पुरुषः । भावप्रधानता पुंसां न शोभते । यतः पुंसा कर्तव्यप्रधानेन: भवितव्यम् । अन्यच्च परमगुरवः कथयन्ति यत् - संयोगा अनित्याः । सर्वमनित्यं विनश्वरं: च। केवलं मनुष्यस्य कर्तव्यमेकमेव शश्वद् । अन्यत्तु सर्वमचिरकालभावि, नश्वरं गत्वर-: मशाश्वतं च ।"
तस्यैतेऽन्तःस्थध्वनय आकाशं व्याप्नुवन्ति स्म । “सर्वमशश्वत्" "सर्वमित्वरं" इति: तस्य ध्वनेः प्रतिध्वनितं कुर्वदिवाऽऽकाशं मैघेराच्छादितमभवत् । उच्चैर्मेघा अगर्जन् ।। पञ्चषक्षणाभ्यन्तरे तु सा काऽपि विषमता वायुमण्डलेऽतर्किताऽभवद् ययाऽकस्मादेव महताः वातेन सह वृष्टिरारब्धा । जनाः सर्वे भीताः । वीरभद्रस्य तु मनसि सैव चिन्तनधाराऽविरतं. प्रचलति स्म - "सर्वमनित्यं सर्वमशश्वत्" । वृष्टेर्वेगो वर्धते स्म । तत्स्पर्धया च वायुरपि महता: रंहसा वाति स्म । कूपपटा यानानां संकीर्ण्यते स्म । स्तम्भा नीचैरवतार्यन्ते स्म । वायोस्तु वेगो: वर्धमान एवाऽऽस्ते स्म । यानपात्रमुच्चैः कम्पते स्म । अन्ततो निर्यामका विलक्षीभूयोच्चैरुद्घोषणं: कुर्वन्ति स्म यत् "जनाः सर्वे स्व-स्वाराध्यदेवं स्मरन्तु । यतो यानस्य सञ्चालनं: नाऽस्मदधीनमधुना । कस्मिन्नपि क्षणे तत् स्फुटितं भविष्यति ।" सर्वे उद्वेगपूर्णाः कान्दिशीका: अजायन्त । एतस्मिन्नवसरेऽनुद्विग्नो निष्प्रकम्पश्चाऽऽसीत् स वीरभद्र: "सर्वमित्वरं सर्वमशश्वत्": इति विचारयन् । अनङ्गसुन्दर्यादयस्तु शयनादुत्थापिता एव नाऽऽसन् । यावता जनाः स्वप्राभातिकं: समापयेयुस्तत्पूर्वं बोहित्थमेव प्राभातिकं समापयन्निवोच्चैः सशब्दं च स्फुटितमभवत् । क्षणकालं. कोलाहलः सर्वत्र प्रासरत् । अनेके जले निमग्ना जाता मृताश्च ।।
इतश्चाऽनङ्गसुन्दरी कुतश्चन किञ्चित्पोतफलकं प्राप्य पञ्चभिरहोरात्रैः समुद्रमतिवादै-: कस्मिन्ननाकुले द्वीपप्रदेशे प्राप्ता । किञ्चित्कालानन्तरं शुद्धि प्राप्ता सा रोदनमेवाऽऽरब्धवती ।। क्षणात्स्वस्थीभूय सा स्मृतवती "आर्यपुत्रेण मम कथितमासीत् यत् - यदा कोऽपि न: सहायस्तदा पञ्चनमस्कारस्ते सहायो भविष्यति" । अद्य यद्यपि नाऽस्ति ममाऽर्यपुत्रो मम पार्वे: किं तावता? नमस्कारो मे शरणं भवतु" इति विचार्य शुद्धमनस्का नमस्कारं पठन्ती तिष्ठति:
.
.
.
.
.
.
.
.
.
.
.
.
.
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138