Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
त..................................................
....................
: मिलिष्यामो मधुयामिन्यामेव।" इत्युक्त्वा तस्या मुखमेव निरीक्षमाणो निर्गच्छति स्म । साऽपि: : द्वारि तिष्ठन्ती यावदृष्टि तं दृष्टवती । पश्चात्सत्वरं गृहमागत्य स्वमातुः सर्वमवितथं कथितवती ।।
वदति स्म च "यदि न मे स भर्ता तदाऽग्निरेव मम पति" इति । साऽपि तन्माता महाराजायः कथयति स्म -राजाऽपि विचारयति “प्रियमेव वैद्यैन सूचितमिदम् । विधे ! शतं धन्यवादा: भवते-" इति विचार्य - "प्रिये ! एवमेव भविष्यति" इत्युक्त्वा सत्वरं सम्प्रेष्य शङ्खमामन्त्रयति: स्म । शङ्खश्चाऽऽगतो राज्ञा स्वपुत्र्या वीरभद्रेण सह विवाहार्थं प्रार्थितः । 'समानानामेव: सम्बन्धः' इति कृत्वा सोऽनङ्गीकारमदर्शयत् । तदा राज्ञा सनिर्बन्धमाज्ञापितः स सज्जीभूतः ।।
ततः पञ्चदशदिनाभ्यन्तर एव विवाहो निश्चितोऽभवत् ।
विवाहोत्सवे सकलं पुरं मग्नमानन्दसागरे । महति विस्तीर्णे मण्डपके तयोविवाह:: : संवृत्तः। प्रवृत्तानि तारामेलकादीनि । हर्षिताः सर्वे आगताः शङ्खश्रेष्ठिहर्म्य । प्रवृत्ता : गृहोचितकल्पाः । विजृम्भिता रात्रिः । व्यतीता द्वयोरपि सा परस्परं विश्रब्धयोः ।
__ अन्यान्यपि कानिचन दिनान्येवं व्यतीतानि । वीरभद्रेण च सा जिनधर्मरता कृता ।: अन्यान्येषु पटेषु देवं गुरुमर्हत्प्रतिमादींश्चतुर्विधमपि च सङ्घ विलिख्य तां परिचायितवान् सः ।
अथाऽन्यदा स्वदेशगमनाय स राजानमापृष्टवान् । तदा रुदन्सोऽप्यनुमतिं ददाति स्म।: वीरभद्रः सर्वं सन्नाह्य विनयवतीं द्रष्टुं गच्छति स्म । सा तु रुदत्येवाऽऽलिङ्गति स्म तम् । तदा: सोऽपि ललाटे तां चुम्बित्वाऽनुशास्य चाऽगच्छत् समुद्रकूले । प्रवहणारूढः स स्वपत्न्या सह गतवान् ।
___ रत्नपुरं सर्वं तद्दिने रिक्तीभूय वेलाकुलमागतवदासीत् । नृप-शङ्ख श्रेष्ठि-श्रेष्ठिनी-: विनयवत्यादयश्च सर्वेषामग्रे स्थिता आसन् । वीरभद्रः सपत्नीको गृहीत्वा गुरूणामाशीर्वाद,: प्रेम्णा सम्भाष्य विनयवत्यादिकैः, अभिवाद्य च सकलं नगरं पोतमध्ये प्रविष्टः । पोता:: प्रवाहस्पर्धया समुद्रे प्रवहन्ति स्म । वीरभद्रः सपरिवारो हस्तं चालयन्सर्वेषां राजादिकनगरजनानाम-: भिवादान्गृह्णनने प्रस्थितः ।
अद्य यात्रायास्तृतीयो दिवस आसीत् । वीरभद्रः प्रातरुत्थाय क्षितिजं पश्यन्कस्मिंश्चिद्: बहिःस्थित आसन उपविष्टे आसीत् । तस्य मुखं दृष्ट्वा भाति स्म यदद्य स कस्याञ्चिद्ः विचारधारायां गभीरं निमग्न आसीत्- "यदा मासद्वयपूर्वमत्र रत्नपुरेऽहमागतवानासं तदा मे का: स्थितिरासीत् ? सर्वथाऽनाथवदनाश्रय आसमहम् । तातकल्पेन श्रेष्ठिना मह्यमाश्रयो दत्तः ।: भद्रादेवी तु मातरमेव विस्मारितवती । सा च प्रेममयी विनयवती मम स्वसुरपि समाधिकाऽऽसीत्": - इति । अकस्मात् तस्य मुखे उद्वेगरेखाऽङ्किता ।
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
९०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138