Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 102
________________ . . . . . . . . . . "बहु सुन्दरं पुत्र !" । एकतो वीरभद्रस्याऽन्यतश्च राजकुमार्यास्त्रियामा महता कष्टेन व्यतीता । द्वितीयदिवसे: वीरभद्र एकक एवाऽगच्छत्तत्र । यावद् लावण्यपूताऽनङ्गसुन्दरी वीणां वादयन्त्यासीत् । तावत् । स शृण्वन्नेवाऽस्थात् । __ "सखि ! नैषा ते वीणा सुस्वरा यतोऽत्र मनुष्यवालः प्रविष्टोऽस्ति" इत्युक्त्वा: विस्फारिताक्ष्यास्तस्याः पुरत एव सा वीरमती तं वालं निष्कासितवती पुनरपि तां सज्जयित्वा: वादयंश्च समधुरान्मनोहरांश्च रागानुत्पादयति स्म । सर्वेऽप्युपस्थिता रागश्रवणे तल्लीनाः स्तब्धाश्च : जाताः । अनङ्गसुन्दरी विचारयति स्म-"यद्येषा पुरुषः स्यात्तदाऽद्यैवैनामालिङ्गय परिणयेयम् ।": दिवसानि व्यतीतानि । स तामन्या अपि कला दर्शयन्कृमिरागवत्स्वस्मिन्निबिडरागवती: कृतवान् । यथा विचारयति स्म सा यत् "अनया विनाऽहं क्षणमपि जीवितुं न पारयिष्यामि": इति। तद्दिने स वीरभद्रो गृहमागत्य शङ्ख श्रेष्ठिने रहसि सर्वां वास्तविकतां कथयित्वाऽवदत् : - "तात ! यदि राजा त्वां स्वपुत्रीपरिणयनाय निमन्त्रयेत् तदाऽऽदौ नाऽनुमन्तव्यम् । पश्चाद्बह्वाग्रहे: सत्यनुमन्तव्यं भवता" इति । इतः सभायामपि रत्नाकरराजस्याऽग्रे सा वार्ता प्रसृता यत् "कोऽपि विदेशीयः शङ्खश्रेष्ठिगृहे: तिष्ठति । आकृत्या महाकुलोत्पन्नो महाशयो महासत्त्वश्च भाति । कलया सर्वमपि नगरं हृतहृदयं: तेन कृतमस्ति । तस्य नैके गुणा श्रूयन्तेऽत्र जनेषु ।" तदा महाराजोऽपि चिन्तयति स्म-: "कदाचिद्वा मे दुहितुर्वरो स एव योग्यो भवेदपि" ! इति अथाऽन्यदा विजने वीरभद्रोऽपि तां पृच्छति स्म "सखि ! सत्यामपि सकलसामग्यां: नवयौवनोगमे कथं भवती भोगविमुखैवम् ?" तदा साऽकथयत् "भद्रे ! यावता स्वानुरूपं पतिं न लभेय तावता कथं परिणयेयम् ।": सोऽकथयत् - "अथाऽधुनैव तेऽहं दर्शयामि तर्हि ?" "तर्हि दर्शयतु" - इत्यवदत् सा हसित्वा । तदा वीरभद्रेणाऽपि स्वरूपं तत्पुरतः : प्रत्यक्षीकृतम् । अथ वीरभद्रोऽवदत् - "प्रिये ! यदि परिणयनमतिरसि तर्हि कथय ते पितरौ । यत्तौ: शङ्खश्रेष्ठिने कथयेताम्" । "आम् ! अधुनैव तत्करोमि " इत्युक्तवती सा । "भद्र ! एतदावयोरपरिणीतयोरन्तिममेव मिलनम् । अथाऽहं नाऽऽगमिष्याम्यत्र । आवां: . . . . . . . . . . . . . . . . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138