Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
.......
...........................................? शङ्खनामा श्रेष्ठी आसीत् । स स्वस्याऽऽपणे स्वासन उपविष्ट आसीत् । तदा तस्य दृष्टिर्वीरभद्रोपरि: पतिता - "आकृत्या त्वेष महासत्त्वो भासते । परमेवमन्यकिङ्करता किमर्थमिति तमाकार्यैव: पृच्छामि" - इति विचार्य स सेवकद्वारा तमाकार्य पुत्रवत्प्रेम्णाऽऽलप्य च पृच्छति स्म-: "वत्स ! कुत्रत्यस्त्वम् ? किं नामा च ?" तस्य प्रेम्णाऽऽदरेण च रञ्जितमनस्को वीरभद्रः-: "इदं गृहं मे सुन्दरमाश्रयस्थानं भवितुमर्हति" इति विचार्य वदति- "तात ! मम नामाऽस्ति: वीरभद्रः । ताम्रलिप्तिवास्तव्योऽहं मातापित्रोराक्रोशेन क्रोधं प्राप्याऽत्राऽऽगतोऽस्मि" । तदा: "तात" इति सम्बोधनेन स्वं तस्य पितरं मन्यमानः शङ्खश्रेष्ठी वदति स्म "वत्स ! एतत्तु: त्वयाऽत्यन्तमनुचितमेव कृतम् । अपि च पितरौ यदि न कथयेतां तर्हि पुत्रान् को वाऽन्यो: शिक्षयिष्यति ?" .... "वत्स ! अलं चिन्तया खेदेन वा, त्वमत्रैव मे गृहे तिष्ठ, ममाऽपि पुत्रो: नास्ति । तर्हि भवान् स्वस्य मातापित्रोः क्षति नैवाऽनुभविष्यति ।" तस्य मुखे पितृप्रेम विलसति: स्म । वीरभद्रोऽपि पुत्रवत्तस्य पादयोनिपतति स्म ।
पञ्चदश दिनानि व्यतीतानि । स प्रचुर सम्माननं तत्र प्राप्नोति स्म । यतः शखश्रेष्ठी: बहधा कथयति स्म - "धनं सुलभं, तभोक्ता किन्त्वेतादृशो दुर्लभः ।" तत्राऽपि वीरभद्रः: संपूर्ण दिवसं ग्रामे उद्याने वाऽटन् कलाविज्ञानादिभिश्च जनान् रञ्जयन् मासमात्रेण कालेन तु: तावान्प्रियः सञ्जातो यद् “वीरभद्र आयाति" इति वार्ता यत्र यत्र रथ्यायामुद्याने वा प्रसरति स्म: तत्र तत्र महान् जनसमूह एव तस्य कौशलदर्शनाय निचितो भवति स्म । सोऽपि तानि सफलानि: मन्यमानो महत्सन्तोषं प्राप्नोति स्म । शङ्खश्रेष्ठिन आसीत् काचिद्दुहिता । साऽन्यदा: कृतषोडशशृङ्गारा सङ्गीतवाद्यानि कुत्राऽपि नयन्त्यासीत् । वीरभद्रस्तां पृष्टवान्
"स्वसः ! त्वं कुत्र वा गच्छसि ?"
"भ्रात: ! रत्नाकरराज्ञोऽनङ्गसुन्दरीनाम्नी दुहिताऽस्ति । कलानां निधिः, लावण्यपाथोधिः, सत्यमेवाऽनङ्गसुन्दरी सा; परं प्रत्येकमपि शुभे वस्तुनि ब्रह्मणा कोऽप्यरुचिकरोऽशोऽवश्य: निहित एवाऽस्ति । प्रथमयौवनस्थाऽपि सर्वसामग्रयां साऽस्ति पराङ्मुखी" इत्युक्त्वा सा: उच्चैनिस्श्वसत।
"भगिनि ! किं कारणमत्र ?"
"भ्रातः ! किमपि न । केवलं कदाऽपि कुतश्चिन्निमितात् सा स्वस्य पूर्वभवान् : जानाति । अतोऽकस्मात् पुरुषद्वेषिणी सञ्जाताऽस्ति । अतिनिर्बन्धेन पृष्टे एव सा वदति -: "पुरुषाः सर्वथा नीचाः । ते नारी रक्षितुं प्रेम्णाऽऽलपितुमपि वा नैव जानन्ति'' - इति ।:
"भ्रातः ! न तस्य सौधे कस्याऽपि पुंसः प्रवेशमात्रमपि सम्मतम् । यदि पुरुषः कोऽपि: : तत्रोपलभ्येत तर्हि तेनाऽवश्यं मरणीयमेव" इति ।
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138