Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
............
.
..
.
.
...
..
.
..
..........
: तेषां प्रकाशनमेवाऽशक्यतमम् । यतोऽत्र तु गुरूणां लज्जैव मेऽर्गलायते । ततः किमे-:
तान्यप्रकाशितान्येवाऽस्तं प्रयास्यन्ति ? किमेभिर्जनानां विस्मयमात्रमपि कर्तुमहं नैव: पारयिष्यामि ? किमेतेषां कृते व्यूढो महान् परिश्रमोऽफलितमेव विनक्ष्यति ? अरे ! कीदृग्बन्धने पतितोऽस्मि ? तस्य मुखमुदासीनतामाघ्राति स्म । स शयनादुत्थाय यावता: गवाक्षाद् बहिः पश्यति तावता तत्र दृश्यन्ते केचिद् यात्रिजनसवाः परदेशादागच्छन्तः ।: तस्याऽक्षिणी चमत्कृते स्थातः - "आ ! ज्ञातम्, यदाऽहं विदेशेषु सञ्चरन्नेव मम कौशलं: प्रख्यापयिष्यामि तदैव ममाऽपि परिश्रमः सफलो भविष्यति, परमा च संतुष्टिर्भविष्यति । अन्यच्च किमिदमपि जीवनमुच्यते ? किं कूपमण्डूकवदेतावत्येव ममाऽपि पृथिवी भविष्यति ?: न - नैव, कदाऽपि न । अहमपि स्वेन बलेन स्वप्रतिभया च भुवने स्वनाम प्रख्यापयिष्यामि।: एको वणिक्पुत्रोऽपि किं कर्तुं शक्नोति, तदद्य जगति प्रत्यक्षं कारयिष्यामि"-इति विचार्य सः उपशय्यमागच्छति । स्वभार्याया मुखं प्रपश्यन् विचारयति स्म च- "एषा यदि कृतकसुप्ताः स्यात्तदा मम गमनार्गला भविष्यति" । अतः स शनैरङ्गमापीड्य तामुत्थापयति स्म । ततः: साऽपि नेत्रे आमृशन्ती वक्ति - "प्रिय ! मम भृशं शिरोऽदति, किमर्थमेवं कदर्थयसि ?" -: "प्रिये ! मयि स्थिते भर्तरि किंनिमित्ता तवेयं शिरो वेदना ?"
"प्रियतम ! तव दोषेणैव ।" "मम ? कीदृशेन ?"
"आर्यपुत्र ! क्षाम्यतु माम् । अहं त्वां नाऽवगच्छामि, यदि वा भवताऽहं नाऽवगता: इत्येव ज्ञातुं न पारयामि ।" सा तन्मुखं पश्यन्ती "प्रिय ! स एष आवयोश्चिरमिलनकालः। एतस्मिश्च काले नवदम्पत्योर्मनसि कियती वाऽऽशा भवेत् ? सर्वस्य संसारस्य सुखमात्रं ते. एकस्यां यामिन्यां प्राप्तुमीहेतेतराम् । अन्योन्यं प्रेमपाशे निबिडतया युज्यतेतराम् ।। स्वान्ययोभिन्नमस्तित्वमपि सर्वथा विस्मृत्य कस्मिंश्चित्प्रेममयेऽपूर्वोल्लासमयेऽननुभूतपूर्विणि च: सुखसागरे सर्वथा विलीयेतेतराम्"। तस्याः शरीरं प्रस्वेदाकीर्णमासीत् । ओष्ठौ च: दुःखमिश्रितेनाऽसन्तुष्टेनाऽऽवेगेन स्फुरन्तावास्ताम् । “प्रियतम ! एतत्सर्वं जानतोऽपि भवतः एतादृशी वैदग्ध्योक्तिः कथमपि शोभते ?" आवेगोऽसन्तोषश्चोद्वेगतायाः स्वरूपमभजत् ।। पश्चाच्च सोऽप्युद्वेगोऽसहायकतायामुदासीनतायां च निलीनोऽभवत् । “एकस्य कस्य-: चित्प्रेमपूर्णस्याऽऽर्यपुत्रस्य स्थाने मया कोऽपि रूक्षविदग्धो विद्वन्मात्र एव सहचरत्वेन: प्राप्तस्तदा जीवनमेव सकलं तेन सह कथं वा यापयिष्यामि ? ... आर्यपुत्र ! एतद्विचार एवः रभसान्मम शिरोऽर्दयति ।"
'मया जीवनसखी काऽपि रसिका प्राप्ताऽतस्तस्य सन्तोषः । परमेतामपि त्यक्तु-:
.
.
.
.
.
.
८५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138