Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 84
________________ कश्चिदपि कर्मकरः पञ्चाशदधिकशतं रूप्यकाणि तु गृह्णीयादेव, तथाऽपि स बालको धनस्य कृते कार्यं करोतीति आनन्दबाबोः चित्ते न प्रतिभातम् । __ "धनपाल !".... तस्य हस्ते दशरूप्यकाणि ददन् आनन्दबाबुः कथितवान् - किं त्वं पत्रशाकादिकमानेतुं शक्तः ? __दशरूप्यकाणि स्यूतं च गृहीत्वा हसता तेन धनपालेन व्याकृतम् - महोदय ! धान्यं, क्रयाणकं, तैलघृतकुप्यः, चायकं, दुग्धं, कोफीद्रव्यं चेति यत्किमप्यानेयं तत् कथनीयम्, अहं : तमानेष्यामि । अहं तदर्थमतिरिक्तं भरणं (Extra Pay) न ग्रहीष्यामि । __ 'अतिरिक्तं भरण'मिति धनपालस्य मुखेन निशम्य आनन्दबाबुः चकितवान् । मासद्वये समाप्ते सत्यपि स बालको वेतनं न याचते, न च कार्यकरणे आलस्यमपि प्रदर्शयति । : कर्तव्यच्युतिस्तु तस्य स्वभावे एव नाऽस्ति, अपि त्वधिककार्यकरणेऽपि तस्योत्साहो विद्यते। मलिनौ उपानहौ परिदधता तेनोक्तम् - 'महोदय !' अन्यत्किमप्यानेयं खलु ? यद्यानेयं तर्हि तदप्यानेष्याम्यहम् । न, न, अधुना त्वियत् पर्याप्तम् । ___ आनन्दबाबुः यत्र वसति स्म तत्रत्यान् बालकान् स आङ्ग्लभाषां पाठयति स्म । : विशेषवर्गमपि निःशुल्कं चालयति स्म सः । अन्यभवनसमुच्चयस्थिता बालकाः कदाचित् : कटाक्षमपि कुर्वन्ति स्म- महोदय ! अस्माभिरप्यस्मिन्नेव भवनसमुच्चये वासः कृतः स्यात्, : तर्हि.... 'तर्हि यूयमपि नि:शुल्कमध्ययनं प्राप्नुयात !' पश्चाद् हसन् स आनन्दबाबुः पुनरपि वक्ति स्म- यदि यूयमपि बोर्डपरीक्षायामाङ्ग्लविषये सप्ततितोऽधिकान् गुणाङ्कान् प्राप्नुयात तर्हि युष्मानपि निःशुल्कं पाठयिष्यामि । साधैंकघण्टापर्यन्तं विद्यार्थिभ्योऽध्यापितम् आनन्दबाबुना । यावद् विद्यार्थिनः स्वस्वगृहं . गतवन्तस्तावदेव धनपाल आगच्छत् । दशरूप्यकाणि स्यूतं च प्रत्यर्पयन् क्रोधेन स उक्तवान् – महोदय ! इतः परमहं तस्य शाकविक्रेतुरापणान्न कदाऽपि शाकमानेष्यामि । जमालपुरविपणित आनेष्यामि, किन्तु तस्याऽऽपणात्तु नैव । 'किं, तेन विक्रेत्रा किमपि कथितस्त्वम् ?' 'मह्यं स न रोचते' इति गृहद्वारस्य बहिर्दृष्टिं विधाय धनपाल: कथितवान् - ‘स मह्यं (14 लञ्चां ददाति' । ७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138