Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 85
________________ ___ 'लञ्चा ?' इति निशम्यैव स आनन्दबाबुः स्तब्धो जातः । प्रतिदिनं त्वया मे आपणात् शाकस्य क्रयणं करणीयं, तुभ्यमहं प्रतिदिनं पञ्चाशन्नाणकानि दास्यामि- इति कथयन्नासीत् । महोदय ! आजीवनं जननी मह्यं वक्ति स्म- एतादृशं धनं विषं कथ्यते, इति । विषं नेच्छाम्यहम् - धनपालो गदितवान् । स आनन्दबाबुः निनिमेषं तमेव पश्यन् स्थितः । धनपालस्तु स्वस्याऽतीते निमग्नो जातः । महोदय ! यदाऽहं लघुवयस्क आसं तदा शालाया एकेन शिक्षकेनाऽन्यस्य शिक्षकस्य द्विचक्रिकायाश्चक्रवेधनं (Puncture) विधातुमादिष्टम् । ततो मया तु तस्य शिक्षकस्य द्विचक्रिकायाः पश्चिमचक्रे चक्रवेधनं कृतम् । तत्कार्यकरणस्य रूप्यकद्वयं मह्यं दत्तं तेन । मया तु सानन्दं तद् रूप्यकद्वयं मात्रे दत्तम् । तदा जननी मां पृष्टवती- वत्स ! त्वयैतद् धनं कथं लब्धम् ? अहं सर्वमपि कथितवान् । तदा तत्क्षणमेव माता मे हस्तमात्मनो मस्तकस्योपरि स्थापयित्वा शपथेन बन्धिवती यद, "जीवने एतादृशं धनं न कदाऽप्यहं स्वीकरिष्यामी"ति । पश्चाद् व्याकृतम् - गच्छ, साम्प्रतमेव येन शिक्षकेनैतद् धनं दत्तं तस्मै प्रतिदेहि। एतादृशं धनं तु विषमस्ति । आनन्दबाबोः नयने आर्दीभूते । गद्गद्स्वरेण तेन पृष्टम् - 'तव जननी...' धनपालः क्षणं तूष्णीं स्थितवान् । पश्चात् कष्टेनोक्तवान् - माता नाऽस्ति.... सा मृता... जनकस्तु मद्यं पीत्वेतस्ततोऽटति । जगत्यस्मिन्मे कोऽपि नाऽस्ति । वत्स ! कोऽपि न स्याद् यस्य तस्य कृपालुर्भगवान् स्यात् । नयनं प्रमाM आनन्दबाबुना प्रेम्णा पृष्टम् - कार्यारम्भाद् मासद्वयमतीतम्, तृतीयो मास: प्रारब्धः, तथाऽपि कथं त्वया वेतनं न याच्यते ? महोदय ! नाऽहं याचकः । मात्रा कथितमस्ति - वत्स ! न कदाऽपि कस्याऽपि - समीपे याचना करणीया ।। भो ! एतत्तु तेऽधिकारस्य धनमुच्यते । तथाऽपि.... न कदाऽप्यहं याचिष्ये । यदा भवान् दास्यति तदा ग्रहीष्यामि । किं ते धनस्याऽऽवश्यकता न भवति ? । महोदय ! धनस्याऽऽवश्यकता कस्य न स्यात् ? किन्तु धनस्य कृतेऽहं न मे स्वमानं हनिष्यामि । भवता यद्वतनं दास्यते तदहं निःशब्दं ग्रहीष्यामि । यदि द्वितीयदिने कार्यार्थमागच्छेयं IV-V तदा भवता दत्तं वेतनं मे मान्यमिति ज्ञेयम् । ७२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138