Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 87
________________ ___ 'धनपाल ! कार्यमेकं करिष्यसि ?' धनपालस्य वाक्यमश्रुतमिव व्यवहरन् आनन्दबाबुः अब्रवीत् - 'मम शालायां तव प्रवेशं कारयेयम् । किं त्वमध्ययनस्याऽऽरम्भं करिष्यसि ?' महोदय ! मम माता नितरामशिक्षिताऽऽसीत्, पिता च पठित आसीत् । पठितेन पित्रा मह्यं किं दत्तं तथाऽशिक्षिततया च जनन्या मह्यं किं दत्तमित्यहं जानामि । महोदय !.... दूरदिशि दृष्टिं विधाय धनपालेनोक्तं - अध्ययनस्य भारेण जीवः सम्यग् हसितुमपि न शक्नोति, न च वास्तविकं जीवितुमपि शक्नोति । मम जननी कथयति स्म - मनुष्येण सह मनुष्यो यदि मानवो भूत्वा वसेत् तद्यस्यां धरायामेव स्वर्गोऽस्ति । आनन्दबाबुः किञ्चिद् विचार्य किमपि कथयेत् तावतैव स धनपालस्तु ततो निर्गतवानासीत् । द्वितीयदिने कार्यार्थमागतवान् सः । आनन्दबाबोः पादौ नमस्कृत्याऽऽशिषं याचमानः स उक्तवान्-महोदय ! मम कृते भवान् भगवतः समीपं प्रार्थनां करोतु यद्-अहं यत्र कुत्राऽपि गच्छेयं तत्र मनुष्यीभूय वसेयं, मम नीतिमत्तायां न काऽपि बाधा स्यात्, .... मम जनन्या दत्तं स्वमानं सगौरवं रक्षेयम् । तमुत्थाप्य आनन्दबाबुः कथितवान् - वत्स ! “अद्य वसन्तपञ्चमीदिनोऽस्ति । अद्य त्वया मे जीवनस्य महत् शम्बलं दत्तमस्ति । आजीवनं न कदाऽप्येतद्दिनं विस्मरिष्यामि.... भगवान् तव रक्षणं कुर्यात्" । सम्पूर्णतः त्रयोविंशत्या वर्षेभ्यः पश्चात् स एव धनपालः ई.स. २००७ वर्षस्य . वसन्तपञ्चमीदिने एकस्मिन् यानसमीकरणस्थाने आनन्दबाबुना सम्मीलितः । सम्बन्धस्य स्मरणं कारयता तेन धनपालेन कथितं - महोदय ! भवता नाऽभिज्ञातोऽहम्, किन्तु मया तु भवान् प्रत्यभिज्ञात एव । भवता प्रथमं चरमं वा यद्वेतनं दत्तं तदद्याऽपि मञ्जूषायां मया रक्षितमस्ति । तानि पञ्चाशदधिकानि शतद्वयरूप्यकाणि स्मरतु भवान् । नीतिमत्तायाः पथि प्रचलन् स निर्धनो धनियो' अद्य त्रयाणां त्रयाणां यानसमीकरणस्थानानां स्वामी श्रेष्ठी धनपालो' जातोऽस्ति । ७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138