Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
एवं विचार्य - 'किं भवानेते अङ्गुलीयके क्रेष्यति किल?' - इति पृष्टवन्तौ । र
'कोऽत्र प्रश्नावकाशः ? न केवलं क्रयणं किन्तु, क्रयणमूल्यादेकसहस्ररूप्यकाण्यधिकानि दास्यामि' - इति सुवर्णकार: प्रत्युदतरत् ।
___ अथ - 'स्वार्थमयमेवेदं जगत् । स्वार्थं विना न कश्चित् कस्यचित् कृते किमपि स्वल्पमपि सहते-वहति वा' - एवमेव मन्यमानौ तौ अद्य किमपि नूतनमनुभूतवन्तौ , यच्च तयोः कृते विचारणेऽपि दुर्लभमासीत् । धावन्ताविव तौ अरविन्दमहोदयस्य गृहं पर Hel गतवन्तौ । तस्य पादयोः पतित्वा - 'देवपुरुषो भवान् । भवतः सम्यग् परिचयोऽस्माभिर्न , प्राप्तः । अपराध आचरितोऽस्माभिः ।' इत्युक्तवन्तौ ।
'पुत्रौ ! मम शिरसि मित्रस्य ऋणमासीत् । मम माध्यस्थ्ये युवयोः पितुर्विश्वास.. \U आसीत् । तं च सत्यापयितुमेव मया युवां वञ्चितौ' - इति स सस्मितमुक्तवान् ।।
___ 'अरे ! वयं वञ्चिता उत भवान् वञ्चितः ? पञ्चविंशतिसहस्ररूप्यकाणां व्ययेन भवता नवमेवाऽङ्गलीयकं यद् निर्मापितं तस्य किम् ?' – उभावप्युक्तवन्तौ । । म तदर्थं खेदलेशोऽपि न विद्यते मम चित्ते । केवलं मम माध्यस्थ्यं युवयोर्लाभाय की
यदजायत तस्य परितोषोऽस्ति । यदि क्लेशं सङ्घर्षं वा कृत्वा न्यायालय आश्रितः स्यात् । तदा का स्थितिर्युवयोरभविष्यत् ? अस्मिन् संसारे कस्यचिद् हिताय रक्षणाय च । कदाचित् स्वार्थहानिरपि सोढव्या भवति । परिणामसुन्दरा च सा हानिरपि स्वार्थसिद्धिरेव' ।
- इति अरविन्दमहोदयः सस्नेहं प्रोक्तवान् । 1 महोदय ! 'संसारोऽयं केवलं वञ्चक: स्वार्थमयश्चाऽस्तीत्यस्माकं मतिरासीदद्यHet पर्यन्तम् । धनविषये च स्वकीयो जनकोऽपि न विश्वास्य-इत्येतादृशमेवाऽस्माकं la
वर्तनमासीत् । किन्तु, अद्य ज्ञातं यन्नाऽयं संसार: केवलं कण्टकाकीर्णः, अत्र सुगन्धीनि ।
पुष्पाण्यपि विद्यन्त एव । न केवलं स्वार्थसाधका अत्र सन्ति किन्तु परार्थाय स्वार्थं । WW त्यजन्तोऽपि जना विद्यन्ते । भवताऽऽवां सम्यग् बोधितौ । उपकृता वयं सर्वेऽपि भवतो र यन्नूतनैव दृष्टिरस्माभिर्लब्धा' - इति सहैव तावुक्तवन्तौ ।
हस्ते हस्तं सम्मेल्य गच्छन्तौ तौ दृष्ट्वा परितोषात् तस्य नेत्रे क्लिन्ने जाते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138