Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
समजायत यदा भार्गवेण सहासमुदीरितम् - "बन्धवः ! नाऽत्र किमप्याश्चर्यम् । सर्वेषु देशेषु मध्यकालीनाः पाण्डित्यप्रदर्शनात्मिकास्तादृश्यः प्रवृत्तयः समये समये प्रावर्तन्त । तादृशं युगं कदाचित् 'क्लासिकल'युगं, कदाचित् 'डेकेडेन्ट' युगमित्याद्यभिधानैराङ्ग्लभाषायामप्यभिधीयते स्म । आङ्ग्लभाषेतिहासेऽपि नव्यन्यायस्य नूतना अवताराः समये समये प्रादुरासन् । किं न श्रुतं भवता यत्तथाविधेन शास्त्रकारचूडामणिना डॉ. जानसन इत्याख्येन नव्यन्यायविधया पदार्थानां लक्षणं विवृण्वानेन 'किस' (kiss, चुम्बनम्) इत्यस्य लक्षणं कथं कृतमभूत् ? श्रूयताम् kiss is an anatomical juxtaposition of orabicularis Oris muscles in action of contraction - ओष्ठद्वयस्य परस्परसंसर्गानुकूलो व्यापारश्चुम्बनम् इति सरलतया कथनीयमासीत् तन्नव्यन्यायविधया तेनैवमुदीरितम् ।" एतदुपरि पुनः सर्वेषां रावणरवविनिन्दकोऽट्टहास उदतिष्ठत् ।
मया सर्वे प्रतिबोधिता यद् "ज्ञानमीमांसायाः सूक्ष्मविश्लेषणपराणीमान्यस्माकं शास्त्राणि कियन्महत्त्वामादधतीति जानाना अपि यूयं किमिति वाक्कलहं कुरुथ ?"
भव्येशेनोत्तरितं यत् "तन्महत्त्वमासीन्मध्यकालिकम्, आधुनिककाले तु सर्वे कार्यव्यापृता व्यस्ताश्च तिष्ठन्ति, कुत्र तेषां तादृशोऽवकाश एवंविधेषु शब्दाडम्बरेषु समययापनस्य ? आधुनिकाः खलूपहसिष्यन्त्यस्मान् पुराणपथपथिका इत्यादिविशेषणैः ।' दिनकरशुक्लोऽवदत् - "क: खल्वस्मानुपहसितुं शक्नोति ? किं ते एवाऽधुनिकाः ? पश्यथ घूटर झा साहबम् । नव्यन्यायाध्यापकत्वेऽप्ययं सर्वदा कोट-पैंट-सफारी-सूट इत्यादि नूनतमपरिधानावृतो भ्राम्यति ।" घूटर झा खलु धौतादिपुरातनवस्त्राणि न परिदधातीति वयमजानीम । किन्तु भव्येशेनाऽसहमति प्रकटयता कथितम् - "अरे अल्पज्ञाः, परिधानेन किमाधुनिकत्वावच्छेदकावच्छिन्नता सिध्यति?"
सर्वे वयं पृष्टवन्तः "तर्हि का परिभाषा आधुनिकतायाः?"
भव्येशः प्रोक्तवान् - "आधुनिकत्वं तु वर्तमानत्वावच्छिन्नकालगतप्रघटनाविशेषजन्यचिन्तनानुकूलव्यापारसंवलिताऽन्तःकरणवृत्तिमत्त्वम् । चिन्तनेन वृत्तिभिश्चाऽऽधुनिकत्वं सिद्ध्यति न परिधानेन । आधुनिकाश्च सारग्राहिणी प्रवृत्तिमाद्रियन्ते ।"
तदैव चातकेन विवादमञ्चे पुन:प्रवेशं कुर्वता प्रोक्तम् - "यदि भवतां सारग्राहिणी प्रवृत्तिर्वर्तते तर्हि जीवनाय सारभूतं मिष्टान्नं, शष्कुली-रसगोलकादिकं सम्पन्नमस्ति । पूर्णाहुतिश्च प्रवर्तिष्यते । सर्वैर्नीराजनाय सज्जीभूय समुत्थातव्यम् । सर्वे पारायणवाचकाः पुरोहिताश्च नीराजनसामग्रीमादाय मारुतिप्रतिमाभिमुखमायाताः ।"
एतदुपरि सर्वे समुत्थाय वायुसूनोः शूरवीराग्रगण्यस्य हनूमतो नीराजनोपक्रमे समवायन्त । चातकस्तारस्वरेण मारुतेः सुललितं स्तवनमारभत -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138