Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
चरितमानसकारेण तुलसीदासेनाऽपि सुन्दरकाण्डं हनूमते एव समर्पितम् । तस्यैव मङ्गलाचरणं हनूमत्परकमस्ति "अतुलितबलधामं हेमशैलाभदेह''मित्यादि । एतदुपरि अतुलितबलधामानमित्यस्य स्थाने द्वितीयायां धाममिति कथं निष्पन्नमित्यादाय व्याकरणस्खलनं क्रोशतां वैयाकरणानां, सन्ततुलसीदाससमर्थकानां विदुषां च मुष्टामुष्टि, कचाकचि युद्धमासीदासन्नमेव, तेन च वराकस्य चातकस्य सकलमप्यनुष्ठानं विरसायिष्यत इत्याशङ्कमानेन मया मध्य एव विषयान्तरकारि क्षेपकं विस्फोटितम् - "अरे, तत्तु निर्णेष्यते परस्तात्, पूर्वं मम तस्या जिज्ञासायाः किमप्यौषधं प्रयच्छथ यत्सुन्दरकाण्डं किमिति सुन्दरत्वेनाऽऽख्यायते? ।'
एतदुपरि विविधा विनिगमनाः प्रादुरासन् । कश्चित्तत्र वर्णनसौन्दर्यं व्याख्यातवान्, कश्चित् सीतासौन्दर्यम् । अत्राऽपि भव्येशभट्टेनैव पणरक्षा विहिता । साक्रोशं स पृष्टवान् - "अरे वाग्भटाः ! क्षणं चिन्तयथ । यदि सुन्दरकाण्डं हनूमतः काण्डं तर्हि तस्य नामकरणमपि हनूमनदुपलक्ष्यकमेव भवेत् । इदं हनूमतो नाम “सुन्दर" इति ।" सर्वैः पृष्टम्-"हनूमतो नाम हनूमान्, वायुसूनुर्वा स्यात्, किमिति सुन्दरनामकः सः ?" भव्येश उक्तवान् “अरे वादविचक्षणाः ! हनूमान् इते तु वानराणां प्रजातिः, वायुसूनुरिति तस्य वंशवर्णनम् । तस्य नाम बाल्ये तन्मात्रा अञ्जनया "सुन्दर" इति स्नेहवशात् स्थापितमासीत् । अनेनैव सा तमाकारयति स्म । 'वायुपुत्र ! आयाहि, हनूमन् ! आयाहि' इत्यादिविशेषणैर्नाऽऽह्वयन्ति मातरः सुतान्, नाम्ना सम्बोधयन्तीति जानाना अपि विवदथ व्यर्थम् ।"
नूतनामिमां सूचनां, नूतनं च ज्ञानं प्राप्य सर्वे वयं ज्ञानाञ्जनशलाकयोन्मीलितनेत्रानात्मनोऽन्वभवाम । चातकस्त्वरितं प्रतिप्राहरत् - "अरे, अहं तु सर्वमिदमजानाम् । तदैव तु पाठानुष्ठानेऽस्मिन् हनूमतश्चित्रं स्थापितमासीत्, तस्यैव स्तुतयो गीताः सर्वैरस्माभिः ।" किन्तु चातकस्य चर्चामिमां न कोऽप्यवितथाममन्यत । "किमति न व्याख्यातं सर्वमिदं पूर्वमेवे"ति तमुपालब्धं प्रवृत्ताः । अस्मत्सुहृत्समवाय एतदुपरि सुभृशं सन्तोषं प्राचीकटद् यत्संस्कृतविदुषां शास्त्रचर्चाया यः खलु महिमा "काव्यशास्त्रविनोदेन कालो गच्छति धीमता"मित्यादिवचनैर्देशे प्रासरत् स सुहृद्गोष्ठ्यामस्यां प्रत्यक्षं दृष्टोऽन्यभाषाविद्वद्भिरपि । एवंविधा एव शास्त्रचर्चाः, शास्त्रार्थाश्च देशमिममासेतुहिमाचलं गतासु पञ्चविंशति-त्रिंशच्छताब्दीषु संसक्तं, व्यापृतं, व्यस्तं च रक्षन्ति स्मेति चिन्तयन्त: सर्वे परावृत्ताः स्व-स्वगृहान् ।
[पीठाध्यक्षः, आधुनिकसंस्कृतपीठम्, जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालयः]
प्रधानसम्पादकः भारती-संस्कृतमासिकस्य, C/८, पृथ्वीराज रोड, जयपुर-३०२००१
५९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138