Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 68
________________ MWWWWWWWWWWMMM IMMVATION MUMMY MWYAUMMMMUN ४४४००००००००००४४४४४४ 1686864 0४० AAAA. संस्कृताडम्बरपरान् शब्दाडम्बरव्याधिचिकित्सापद्धतिं कः समबोधयिष्यत् ?" ।" कथामिमां श्रुत्वा सर्वैः सुहृद्भी रावणरवविनिन्दकोऽट्टहास आरब्धः । तं श्रुत्वा नव्यन्यायप्राध्यापको घूटर झा सरभसमुपसृत्य पृष्टवान् "किं सञ्जात''मिति । तमवलोक्य भव्येशभट्टेनैकमपरं परिहासास्त्रमुपलब्धम् । स प्रोवाच - "बन्धवः, अस्माकं भाषायां यावती शब्दसमृद्धिरस्ति तावत्येव शब्दशल्यक्रियाकुशलताऽप्यस्ति । अस्यां शल्याक्रियायां प्रवीणैर्निरुक्तकारैः प्रथमैर्हि विद्वद्भिवैयाकरणैश्च बह्वयः शताब्द्यो यापिताः शब्दानां शवपरीक्षायाम् । यदा च तेषामातङ्क: किञ्चिद-शाम्यत, तदैव मगधसाम्राज्येन नूतनमेकं शास्त्रं प्रासूयत येन शब्दानां त्वगाकर्षणस्य, शाब्द-बोधविश्लेषणस्य, परिभाषणस्य चाऽवच्छेदकावच्छिन्नादिविचित्रशब्दजीववैविध्यसंरक्षकं शब्दशक्ति-जन्तूनामभयारण्यं समुद्घाटितम् । अस्याऽभयारण्यस्य जन्तवः सर्वेषां शास्त्राणामुपवनेषु प्राविशन् । प्रायोऽष्टशतवर्षेभ्यस्तत्रैव निवस्तुमप्यारभन्त ।" उपमन्युश्रौतायनेन समर्थितं यद् "वेदकाले तु नाऽभूत्तादृशी शब्दत्वगाकर्षणप्रवृत्तिः । मध्यकालीनैवेयं दुर्घटना यद्विवक्षितस्य वस्तुनः सम्प्रेषणं बोद्धव्ये सञ्जातं न वेति ज्ञातुं "शाब्दबोध"स्य विकटप्रहाराः पद्धतय आविष्कृताः । मघवा मूलम् बिडौजा इति तस्य टीका यथाऽक्रियत तथा सादृश्यं किं भवतीति लक्षयितुं "तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वं सादृश्यम्" इत्यादि छात्रा अपाठ्यन्त ।" भव्येशभट्ट उक्तवान् यद् "मया तु तद्भिन्नवृत्तित्वे तवृत्तित्वमानं सादृश्यमिति कुत्रचन पठितमासीत् ।" तदैव विद्युत्प्रकाशव्यवस्थायै तत्र समायातेन चातकेनोदीरितं यत्तेन तु "उपमानतावच्छेदकावच्छिन्नप्रतियोगिताकभेदवत् सादृश्यमिति पठितमासीत् ।" सर्वमिदं श्रुत्वा घूटर झा वक्तुमारभत यद् "यदि सूक्ष्मार्थमीमांसा, इतरव्यावर्तकलक्षणं च क्रियते तर्हि औपम्यस्य लक्षणमित्थं कर्तुमुचितं स्यात् - शृण्वन्तु सर्वे दत्तावधानाः' - "उपमानविशेषनिष्ठप्रकारतानिरूपित-प्रतियोगित्वनिष्ठसांसर्गिकविषयतानिरूपित-भेदनिष्ठविशेष्यताख्यप्रकारतानिरूपित-विशेषणताविशेषनिष्ठसांसर्गिकविषयतानिरूपिताधिकरणनिष्ठविशेष्यतानिरूपिता या स्वरूपनिष्ठसांसर्गिकविषयतानिरूपिता उपमानविशेषनिष्ठप्रकारतानिरूपित-समवायादिनिष्ठसांसर्गिकविषयतानिरूपितवृत्तित्वनिष्ठविशेष्यताख्यप्रकारता तन्निरूपितस्वरूप-निष्ठसांसर्गिकविषयतानिरूपितधर्मनिष्ठविशेष्यताशालिज्ञानत्वं सादृश्यम् ।" घूटर झा यदा सर्वमिदं ब्रुवाणोऽभूत्तदा सर्वेऽतिथयस्तं परिवार्य स्थिताः शृण्वन्तोऽभूवन्वेदध्वनिना सह किञ्चन धार्मिकं कृत्यं सञ्जायत इत्यवधारयन्तः । भ्रमात्मकज्ञानस्याऽस्य निवृत्तिस्तदा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138