Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
भवन्तमितोऽपक्रष्टुमलम् । किञ्च, यस्य मुखं निर्मलं व्यवहारश्च शुद्धस्तत्कृत एव जलं LI हितकारि। यदि भवानपि तादृश एव तदा न मयाऽस्ति किमपि वक्तव्यम् । परन्तु /
भवानाजीवनमपि तादृश एव स्थातुं शक्तो वा ?, इति चिन्तय सम्यक् " इत्येवं हुदहुदपक्षिण्या उपालब्धः सः ।।
ततो मन्दमन्दं चलन् चकोरोऽग्रे आगतः । तद्व्यक्तित्वं चारुतयाऽऽत्मसन्तोषेण च शोभमानमासीत् । तस्याऽरुणवणे वस्त्रे मुक्तानां निधिरिव निहित आसीत् । रक्तवर्णाभ्यां नयनाभ्यां तादृशवर्णया च ग्रीवयोन्नतं मस्तकं धारयन् स स्वीयकोशे खड्गं वोवा तत्राऽऽगतः । लज्जालुतया तेन स्वग्रीवोर्वीकृता कथितं च, "बन्धवः ! गिरिगह्वरेषु / भ्रमणमेव मे रोचते । रत्नसङ्ग्रहणं मेऽभिरुचिः । रत्नैर्मम हृदये सार्वदिकोऽग्निः (9) प्रज्वालितोऽस्ति । यश्च मेऽतीव सन्तोषावहः । किञ्च, यदा मेऽन्तःकरणे कामनाग्निर्जागर्ति - तदा ये रत्नोपला मया गिलितास्तेऽपि शोणितेन सिक्ता इव रक्तवर्णा भवन्ति । बहुशोऽहं स्वमुभयो रत्नाग्न्योर्मध्ये पिष्यमाणं निष्क्रियमुद्विग्नं च पश्यामि । पश्यन्तु सुहृदः ! कथमहं जीवामि । ये पाषाणेषु शेरते कर्करांश्च खादन्ति तेषां जागरणं नाऽस्ति सुकरम् !"
"मम हृदयं हि विषादशतैर्वणितमस्ति यतो महार्घाणां रत्नानामभिलाषो गिरिमालासु मां भ्रामयति । यतोऽन्येषां सामान्यवस्तूनामभिलाषो हि क्षणिकः, रत्नानां साम्राज्यं तु सनातनम् । शाश्वतानां गिरिकन्दराणां नि:ष्यन्दं तत् । इह जगति रत्नेभ्योऽप्यधिकमूल्यं ID नाऽस्ति किञ्चिद् वस्तु । मुक्ता अपि तत्कोटि नैव प्राप्नुवन्ति । अत एव कटिपढें खड्गं च धारयन्नहं सर्वदा रत्नान्येव मृगयमाणो भ्राम्यामि । एवं च मे पादौ रत्नेषु कर्दम इव संश्लिष्टौ, सीमुर्गप्राप्तेश्च मार्गोऽतिविकटोऽस्ति । तत्कथमहं तदर्थं साहसं कुर्याम् ? अहं | महार्घरत्नान्येव मृगयमाणो मरिष्ये। एवं च ममाऽऽभिजात्यं स्पष्टमेव । ये च मे जीवनस्याऽऽदर्शान् नाऽवबुध्यन्ते तेषां जीवनं तुच्छम् ।"
तदा मस्तकं विधुन्वती हुदहुदपक्षिणी तं प्रत्युत्तरितवती, "भो पक्षिन् ! भवान् यद्यपि नैकवर्णानि रत्नानि धारयति तथाऽपि परेव भवान् । भवतस्तर्का अपि युक्तिहीनाः । भवतश्चित्तं कामनाभिर्विकृतं जातमस्ति । रत्नानां मार्गणमेव भवतोऽधोगतिः । किञ्च, रत्नानि हि तावत् वर्णमया उपलखण्डा एव । यदि तत्र वर्णा न स्युस्तदा तु तेऽपि सामान्याः प्रस्तरा एव । तथाऽपि तेषामासक्तिर्भवन्तं मूढं भवतो हृदयं च कठोरं करोति ।"
"तथा, यः स्वयमेव सु-वर्णः स्यात् स कथं वा वर्णानामन्वेषणे मूढो भवेन्ननु ? - KI यश्चाऽन्तःसारधारकः स बाह्यरूपेषु कदाचिद् विमुह्येत् किल? अतो भवांस्तेषां पाषाणानां ) || मोहं त्यक्त्वा सत्यस्याऽऽन्तररत्नस्याऽन्वेषको भूयाः । तदेव भवते श्रेयस्करं भावि ।" |
४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138