Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 53
________________ | | गाढमैत्र्यमासीत् । एतस्मादेव कारणादहं स्वर्गान्निष्कासितो विश्वासपदाच्च भ्रंशितः ।" ।। "अथ पृथ्व्यामागतस्य मे पादावेव मदर्थं कारायितौ । अतः प्रत्यहमहं कञ्चिद् (/ देवदूतं प्रतीक्षे यो मामिहत्यादन्धतमस उन्नीय प्रकाशस्य महाप्रासादे स्थापयेत् । भवदुक्तस्य राज्ञः समीपेऽपि गन्तुं नाऽहमिच्छामि । तस्योद्यानस्य द्वारमपि प्राप्नुयामहं तदाऽप्यलम् । किञ्च, पृथिव्याः स्वर्गे वस्तुकामा मादृशाः कथं वा सीमुर्गं प्राप्नुयुः ? मम परमाभिलाषस्तु स्वर्गजीवनस्यैवाऽस्ति, अन्यत् सर्वमपि मदर्थं निरर्थकमेव !!" तदुक्तं निशम्य हुदहुदपक्षिणी स्थैर्येणोक्तवती, "भोः ! भवान् कुमार्ग प्रस्थितोऽस्ति । | स्वर्गादपीह नो राज्ञो महालयोऽत्यधिकं सुन्दरोऽस्ति । आत्मनः शाश्वतं निवासस्थानं स । एव । अस्माकं मनोरथानां परमास्पदं हृदयस्यैकैव महत्त्वाकाङ्क्षा च तस्य सत्पदस्य प्राप्तिरेव स्यात् । तत्पदं हि विराटसागर इव समस्ति । तदने स्वर्गसुखानि तु बिन्दूयते। । सागर एव यदा सुप्रापस्तदा किमर्थं वा तुषारकणस्य कृते तपः कर्तव्यम् ? यः सूर्यस्याऽनन्तरहस्यानां सहभागी स धूलिकणैः कथं वा रमेत ? पूर्णत्वापेक्षी किं कदाऽपि अल्पैरंशैः प्रीणितो भवेन्ननु ! यदि भवान् पूर्णीभवितुमिच्छेत् तदा पूर्णमेवाऽभिलषस्व, पूर्णमेव मृगयस्व पूर्णमेव च प्राप्नुहि ।" तावता पक्षिकदम्बकमध्याद् भीतभीत इव कादम्बो बहिरागतः । तच्छरीरं TA श्वेतकन्थया विभूषितमासीत् । पर्षन्मध्यमागत्य स उक्तवान्, "सुहदः ! मत्तोऽपि सुन्दरतरो निर्मलतरश्च पक्षी भवद्भिदृष्ट एव न स्यात् । प्रतिक्षणं जीवनस्य मलं वारिणा क्षालयन् जले एव च निवसन्नहं जले प्रार्थनाया आस्तरणमेव प्रसारयामि । को वा पक्षी एवंरीत्या || जले निवसेत् ? तथा, जलवासेनैव मयाऽन्येभ्यो विलक्षणा शक्तिरपि प्राप्ताऽस्ति । | मादृशः स्पष्टदृक् स्वच्छवेषः शुद्धमूलः सदाऽनुतापी च पक्षी नाऽन्यः कोऽपि प्राप्येत ।" "किन्तु सलिलादप्यन्यत् किञ्चिदपि मदर्थं कल्याणकारि नैवाऽस्ति । मम निर्वाहो वासश्च जले एव । यदा काश्चनाऽपि बाधा मां पीडयन्ति तदा जलसाहाय्येनैव ताः दूरीकर्तुं समर्थोऽहम् । यत्र चाऽहं वसामि तज्जलमपि स्वच्छमेव भवति । परं शुष्का पृथिवी मे नैव रोचते । यतोऽत्र जगति जलस्यैव प्रभावाज्जीवन्ति सर्वेऽपि जन्तवः । अतो भवन्त एव कथयन्तु, कथं वाऽहं तादृशं जलं त्यक्त्वा विषमा दरीरुल्लचितुं सीमुर्गं च प्राप्तुं शक्नुयाम् ? का वाऽऽवश्यकता मम तादृशमायासयितुम् ? अहं तु वारितले एव ना जीवामि तेनैव च सन्तुष्टोऽस्मि सन्तृप्तश्च ।" तदा, "समग्रं जीवनं जलवासस्याऽऽनन्दमनुभवन्नरे पक्षिन् ! जलवासेन भवान् | अलसत्वं प्राप्य तन्द्रारतः सञ्जातोऽस्ति । किन्तु भवतोऽतिप्रियस्य जलस्यैक एव कल्लोल | Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138