Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
स्थानेऽपि स पूर्णतया न प्रकटीभवति, अतस्तत्प्रापणं तु कठिनमेव, परं तद्वर्णनमपि । दुष्करम् । सहस्रशो विहगास्तं प्राप्तुं प्रयतितवन्तः, सहस्रशश्च तदर्थमुत्कण्ठिताः, किन्तु बुधम्मन्याः पक्षिणोऽपि तं शोधयितुं तत्सौन्दर्यं वा प्राप्तुं नैव शक्ताः । तत्प्रापणायाऽऽदरणीयः प्रवासोऽप्यतिदी? दुर्गमश्च । तत्र प्रवसितुकामेन स्वजीवितमपि पणीकर्तव्यं, तस्य शोधने च कदाचिन्मरणमपि सम्मुखीकर्तव्यम् ।"
"किन्तु, यदि वयं निष्ठापूर्वकं तस्य मार्गणे प्रयत्नरता भवेमस्तदा स स्वयमेवाऽस्माकं सम्मुखमागत्याऽस्मान् स्वस्थाने नेष्यति स्वतुल्यांश्च करिष्यति ।"
हुदहुदपक्षिण्या एतानि वचनानि श्रुत्वा सर्वेऽपि पक्षिणो विषयमेनं परस्परं चर्चितवन्तः। सर्वेषां मनसि स्वनृपसंशोधनस्याऽभिलाष आसीत् । अतः प्रथमं तु
सर्वैरपि- "वयं सीमुर्गं शोधयिष्यामहेऽवश्यं मृगयिष्यामहे" इत्यादि कलकलः कृतः । | किन्तु यदा भावावेशोऽपगतः परिस्थितेश्च भानमभवत् तदा सर्वेषां 'कठिनैषा यात्रा,
दुष्करा दुःशका चेति प्रतिभातम् । अत एकैकोऽपि पक्षी तत्र गमनाय स्वीयानिच्छां दर्शयितुं विविधान् व्याजान् विमोचनहेतूंश्च कथयितुमारब्धवान् ।
सर्वप्रथममेव बुल्बुल आगतः । पञ्चमस्वरेण तेन स्ववृत्तकथनमारब्धम् । तस्य कण्ठान्माधुर्यप्रवाह एव निःसृत इव । प्रत्येकं शब्दः पूर्वतनाच्छब्दान्मधुरतरो नूतनानि च रहस्यान्युद्धाटयन्निव प्रत्यभात् । अनेन हृदयस्पर्शिमाधुर्यश्रवणेन सर्वेषां पक्षिणां कोलाहलः शान्तोऽभवत् ।
तेनोक्तं, "सुहृदः ! अस्मिञ्जगति प्रेम्णो रहस्यान्यहमेव जानामि । आरात्र्यहं प्रेमसङ्गीतस्य गानं करोमि । वंशादीनि वाद्यान्यपि मधुरतार्थं मामेवाऽऽश्रयन्ते । अन्यच्च, पाटलपुष्पाणि ममाऽतीव प्रियाणि । तेषु विहरनहं प्रेमिजनानां हृदयेषु व्याकुलतां जनयामि । विषादप्रेरकं मे प्रत्येकं गानं नूतनमेव रहस्यमुद्घाटयति । मम सङ्गीतेन विरहिजनानां हृदयेभ्यो निःश्वासानां सागर एव समुद्भवति । पण्डिता अपि मद्गानश्रवणेन प्रेमपरवशीभूय स्वबुद्धिमप्यवमन्यन्ते ।"
___ "किन्तु पाटलपुष्पं विनाऽहं वियोगीवैकलो जीवितुं नैव शक्तः । तदपश्यतो मत्तः सङ्गीतमेव न प्रकटति, प्रत्युत मम गानरहस्यानि विलीनीभवन्ति । ममाऽन्तःसत्त्वमस्तित्वं
च पाटलपुष्पाणामस्तित्वे एव विद्यते । तैर्विना नाऽहं किमपि कर्तुं शक्तः । पाटलपुष्पाण्येव (9) ना मदर्थं पर्याप्तानि । यतस्तानि मत्कृते एव प्रोत्फुल्लन्ति । ततोऽप्यधिकं न किमप्याशासे।
यतः प्रेमगानं पाटलपुष्पसन्निधिं च विना कथमहमेकदिनमपि जीवितुं शक्तो भवेयम् ? | अतो राज्ञः सीमुर्गस्य प्रापणाय यात्रां कर्तुं नाऽस्ति मे सामर्थ्यम् ।"
३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138