Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 50
________________ अनुवादः । पक्षिपरिषत्र मुनिकल्याणकीर्तिविजयः जगतो ज्ञाता अज्ञाताश्च पक्षिण एकत्र मिलिता एकदा । तेषां चर्चाया विषय | Wआसीद् यद्- 'जगत्यस्मिन् कोऽपि देशोऽराजको नाऽस्ति, केवलमस्माकं पक्षिणां न (9 1 कोऽपि शासिता विद्यते । परिस्थितिरियं नोचिता चिराय । अतोऽस्माभिर्यथाशीघ्रं प्रयत्नान् । | कृत्वा मृगयितव्योऽस्माकं राजा। अन्यथाऽस्माकं तन्त्रं सम्यक्तया कार्यरतं न भवेद्' इति । \ सर्वेऽपि पक्षिणश्चिन्ताक्रान्ता आसन् यत् 'कथमस्माकं राजाऽस्मान् मिलेत् ?', एतदर्थं च सर्वेऽपि सर्वसामर्थ्येन प्रयतितुमुत्सुका उत्साहयुताश्चाऽऽसन् । अथ तान् चिन्तितान् दृष्ट्वा हुदहुद* - नाम्नी पक्षिणी तान् सम्बोधयितुं । ITA पर्षन्मध्यमागता । तस्या उरस्यध्यात्मज्ञानस्य रहस्यमयं प्रतीकमासीत्, मस्तके सत्यमयो मुकुट आसीत् । सा सत्यमनृतं शुभमशुभं चेति सर्वमपि जानाति स्म ।। मधुरस्वरेण तयोक्तं, "बन्धवः ! अहमस्माकं राज्ञः स्थानं जानामि । किन्तु तत्र प्राप्तुमस्माकं राजविषयिकी हार्दिकी निष्ठाऽऽवश्यकी सर्वप्रथमतया। तत्स्थानं शोधयितुं | नैकानि गुप्तरहस्यानि ज्ञातव्यानि, तथैवोत्कटा श्रद्धाऽविचला धृतिरश्रान्तश्च परिश्रम जा आवश्यकाः । यदि भवन्त एतदर्थं सिद्धास्तदा कथयेयं भवद्भयो नो राज्ञो नाम तत्स्थानं च ।" सर्वैरुक्तं, "वयं सिद्धाः स्मः ।" । सोक्तवती, "तर्हि शृण्वन्तु, अस्माकं राज्ञोऽभिधानं सीमुर्ग इत्यस्ति । स पृथिवीं A) सर्वतो वेष्टिते काफनामके पर्वते एकस्यां गुहायां निवसति । स जगतः सर्वेषामपि पक्षिणां IA राजाऽस्ति । यद्यपि स सर्वदाऽस्माकं सन्निहितोऽस्ति तथाऽपि नः सामर्थ्याभावाद् वयं 0 ततोऽतीव दूराः स्मः । अस्माकं ज्ञानं तं ज्ञातुं तत्स्वरूपं वाऽवबोद्धं नैव समर्थम् । स्वीये Hoopoe ३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138