Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
स्वजनसुखयन्तं कंसमाराद् भ्रमन्तं सकलहृदि वसन्तं चिन्तयामि प्रभुं तम् ॥'
(श्रीकृष्णचन्द्राष्टकम्, ३) पद्येऽस्मिन् कुवलयापीडनामकस्य हस्तिनो मातुलस्य कंसस्य च Ma विनाशस्य दृश्यं नितरां ललितशैल्या सलीलमनुप्रासोपेतया भाषया वर्ण्यते ।
स्तोत्रस्य प्रत्येकं पद्यं नूतनं भावं विशदीकरोति ।
हिन्दीभाषाया महाकवेः सूरदासस्य 'पदेषु' श्रीकृष्णस्य बाललीलाया मनोरमवर्णनं कस्य सहृदयस्य हृदयं न हरति, तस्या एकं चित्रं वक्ष्यमाणे पद्ये संस्मर्यते । मायातीत: परमेश्वरः कथं मानवलीलायां नवनीतचौर्यकर्मणोः बिभेति ? पद्यस्याऽस्य नादसौन्दर्य चित्तं नितरां प्रसादयति ।
'करधृतनवनीतः स्तेयतस्तस्य भीत: पशुपगणपरीतः श्रीयशोदागृहीतः । निखिलनिगमगीतः कालमायाद्यभीत:
कनकसदुपवीतः श्रीशुकादिप्रतीतः ॥' (तदेव, ४) जगद्गुरु-श्रीमद्-वल्लभाचार्य-विद्यालक्ष्मी-संवर्धन-सङ्कल्पे श्रीमतां जगद्गुरुमहाराजानामाज्ञया प्रकाशितं मुद्रणादिदोषविरहितं श्रीकृष्णचन्द्राष्टकं न केवलं श्रीकृष्णोपासकानाम् अपि तु सर्वेषां सुरभारतीसमुपासकानां स्वान्तं प्रीणाति । मन्येगोवर्धनेशप्रकाशनमण्डलमन्यान् सद्ग्रन्थान् प्राकाश्यं नीत्वा देववाणीग्रन्थवैभवं विवर्धयेत् ।
PRE
आर्योऽपि दोषान खलवत् परेषां वक्तुं हि जानाति परं न वक्ति । किं काकवत् तीव्रतराननोऽपि कीर: करोत्यस्थिविघट्टनानि ? ॥
३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138