Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
OMMMMMMMMMMMMMMANAYAMAMMMMM
४४०४०००४४४०००४
००००००
४४४४४४४४४
४ ४४४४४
AVAN
n al
शास्त्रप्रौढिचमत्काराः
SELECTRIm
ललितकथा
भRIBaitadiatio
देवर्षि कलानाथ शास्त्री 0 अद्य तु प्रातरेव मदीयगृहस्य दूरभाषयन्त्रं घण्टानादेन मामजागरयत् । प्रात:कालिका दूरभाषसन्देशाः प्रायो मत्पत्न्याः कृते भवन्ति स्म यतो हि तस्याः सखीमण्डलं व्यापकं, सुविस्तृतं, वैविध्यमयं चाऽस्ति । सा लेखिकासङ्घस्याऽध्यक्षत्वं वहतीति कदाचन सङ्घस्योपवेशनानामायोजनविषयकाः, कदाचन साहित्यसङ्गोष्ठीनां सूचनाविषयकाः, कदाचनोपवनसन्धिविषयका दूरभाषसन्देशास्तदर्थे एव भवन्ति स्म । अत एव त्वहमुपहासविधया तस्यै असकृत् कथयामि यत्तव नामधेयमिन्दिरेति नूनमन्वर्थकम् । श्रीसूक्ते लक्ष्मी स्तुवनृषिस्तस्या "हस्तिनादप्रबोधिनी"मिति विशेषणं प्रयुनक्ति । सा गजनिनादं श्रुत्वा प्रातर्जागर्ति स्म, त्वमपि दूरभाषघण्टानादेन प्रातर्जागर्षि । अतस्तव विशेषणं "फोनघण्टाप्रबोधिनी"त्यादि किञ्चन कल्पयिष्यामि, त्वत्स्तोत्रं च प्रणेष्यामीत्यादि ।
किन्त्वयं घण्टाध्वनिर्मदर्थे, अथवा आवयोर्द्वयोः कृतेऽभूत् । अस्मत्सुहृदा चातकेन (कविपुङ्गवेन) सूचितं यदद्य सायङ्काले तद्गृहे सुन्दरकाण्डपाठानुष्ठानसमापनसमारोहो भविता, तत्र च सर्वेषां सुहृदां भोजनमप्यस्ति । मया सोपहासं पृष्टम् "किं त्वं सुहृदां भोजनं करिष्यसि ? स्वकाव्यं श्रावयित्वा सर्वेषामस्माकं धैर्यस्य भोजनं तु त्वमन्वहं करोष्येव ।" तेनोत्तरितम्- "अरे जडमते ! त्वादृशानां भोजनं कृत्वा सङ्क्रामकरोगाणामावाहनं किमिति करिष्ये ? "भुक्ता ब्राह्मणाः, तृप्ताः पितरः" इति शास्त्रोक्तिमनुसृत्य सूचयितुमिच्छामि यद् भवतः सर्वान् भोजयिष्यामि । किन्तु नाऽयं कश्चन सहभोजः, प्रसादग्रहणमिदम् । अतस्त्वं प्रजावत्या सहाऽवश्यं समायास्यसि प्रसादग्रहणाय ।" सहर्ष स्वीकृतमिदं निमन्त्रणमावाभ्याम् ।
यदा निमन्त्रणमनुवर्तमानावावां चातकगृहं प्राप्तौ तदा तत्र सर्वान् सुहृत्परिवारान् समवेतान् दृष्ट्वा तु हर्षमनुभूतवन्तौ, किन्तु तदा यः शास्त्रार्थः प्रसङ्गवशात्प्रवृत्तोऽभूत्तं श्रुत्वा कुतूहल-हर्षविस्मयादिभावशबलतामप्यनुभूतवन्तौ । प्रसङ्गोऽयं प्रचलन्नभूद् यत् - "चातकेन केवलं सुन्दरकाण्डस्यैव पारायणं किमिति कारितम् ? कः खलु विशेषः सुन्दरकाण्डे ? तत्र न तु रामस्य विजयः सूचितः, न वा रावणवधः, न च काचन विशिष्टा सिद्धिः फलश्रुतिर्वा तस्य काण्डस्य कुत्रचन श्रुता । तर्हि केवलं सुन्दरकाण्डपारायणस्य किमौचित्यम् ? सम्पूर्णस्याऽऽदिकाव्यस्य वाल्मीकीयरामायणस्य कथावाचनं पारायणं वाऽभविष्यत्तर्हि तत्तु विचारसहमभविष्यदेव, किन्तु सुन्दरकाण्डपाठमाहात्म्यं किमस्ति ?"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138