Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ध्येयस्य सिद्धावसिद्धौ वाऽपि नः प्रगतिर्भविष्यत्येव । यदि परं दुःखभयेनाऽन्येन वा । केनचित् कारणेनऽवरुद्धा भवामस्तदा न किञ्चिदपि सेत्स्यति । इतश्च स्थानादेकपदप्रमाणाऽपि / प्रगति व भविष्यत्यस्माकम्" इति बोधितवती । "तथाऽहं स्वयमेवाऽस्यां यात्रायां () धुरीणाऽग्रेसरा मार्गदर्शिका च भविष्यामि, आपदि चाऽग्रे स्थास्यामि, सङ्घर्षाणामन्तरायाणां च नाशार्थं प्रयतिष्ये, सर्वासां समस्यानां निराकरणं करिष्ये, सर्वेभ्योऽप्यधिकं दुःखमहमेव सहिष्ये" इत्याप्यायितवती च ।
ततः, सीमुर्गप्राप्तेरनन्तरं सर्वेषां जीवनं कीदृगद्भुतं रमणीयं च भविष्यति, इत्यपि M सा स्वीयसर्वशक्त्या तान् बोधितवती । तस्या इयतीमात्मनिष्ठामियच्च श्रद्धैश्वर्यं विलोक्य / सर्वेऽपि पक्षिणो मूका इव सञ्जाताः । तां प्रतिवदितुं न कोऽपि शक्तोऽभवत् ।
यद्यपि सर्वेषां पक्षिणां मनांस्याशा-निराशयोरानन्द-विषादयोः श्रद्धाश्रद्धयोः सुख-दुःखयोश्च दोलायमानान्यासन्, तथाऽपि हुदहुदपक्षिण्यास्तेजसा सङ्कल्पबलेन च प्रभाविताः सर्वेऽपि पक्षिणस्तया सहैव सीमुर्गप्राप्तेर्यात्रां कर्तुं निर्णीतवन्तः ।
ततः सा हुदहुदपक्षिणी सर्वेभ्यः पक्षिभ्यो यात्रार्थं मार्गदर्शनं कृतवती यथा, "सुहृदः ! तत्र प्राप्तुमस्माभिः सप्त दरीरुल्लद्ध्याऽग्रे गन्तव्यम् । तत्र पृथ्वी परितो
वेष्टिताया गिरिमालायाः सर्वोच्चे शृङ्गे एकस्यां गुहायां सीमुर्गस्य निवासोऽस्ति । यः TA कोऽप्येता दरीरुल्लचितवान् स परमप्रेम परममुक्तिं च प्राप्त एव । स कदाऽपि ततो न
प्रतिनिवर्तते । किन्तु नैषा यात्रा सरला । आत्मपूर्णताया यात्रायामस्यां वर्तमानस्य यात्रिणो न कुत्राऽपि विरामः । यात्रायां सातत्यमेव तस्य जीवनम् । यदि तत्र मृत्युरपि प्राप्येत तदा सोऽपि तदर्थं मुक्तेरैक्यस्य परममिलनस्य च साधनम् ।"
"प्रथमा दरी शोधनस्याऽस्ति । द्वितीया प्रेम्णस्तृतीया च शुद्धबोधस्य दरी । चतुर्थी दर्यनासक्तेर्मुक्तेश्च, पञ्चमी विशुद्धैकतायाः, षष्ठी महाश्चर्यस्य, सप्तमी च दरी शून्यताया अस्ति ।"
"प्रथमां दरी प्राप्तमात्राणामेवाऽस्माकं कठिनतमा परीक्षाऽऽरप्स्यते । तत्र प्रविष्टैरस्माभिः सर्वासां सम्पदां त्यागः कर्तव्यः, वृत्तयः परावर्तनीया अनासक्तिश्चाऽऽत्मसात् कर्तव्या । एवं कृत्वा प्रार्थने कृते वयं दिव्यप्रकाशस्य दर्शने सहभागिनो भविष्यामः । / अस्माकमिच्छाशक्तिरुत्कटा भविष्यति । प्रार्थनाबलेन च यात्रार्थमस्माकं पादयोः (9) सामर्थ्यवृद्धिरपि भविष्यति । जीवने नूतन एव रस उदेष्यति । तेन च रसेन
सीमुर्गशोधनार्थमस्माकं शक्तेरप्यनन्तगुणा वृद्धिर्भविष्यति । यदा च वयं तस्या दर्याः ) | पर्यवसानं प्राप्स्यामस्तदाऽस्माकं चित्तेभ्यो जाड्यं कुरूढीरन्धविश्वास इत्यादीनि कुतत्त्वानि ।
४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138