Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
भयश्च दरीदृश्यते स्म । अध्वनि चलन्तः पान्था इव सर्वेऽपि वर्तमानाः परस्परं न केऽपि वार्तालापं कुर्वन्ति । एवं वयं सर्वेऽपि दुःखिनः स्मः । कार्यालये कार्यचिन्ता पीडयति, सदने । चाऽस्याः क्लेशो मां पीडयति । 'किं करणीयं, कथं वसनीयं, कस्मै कथयानि च' इति ! प्रश्ना मां निरन्तरं बाधन्ते । कदाचिदसामनोवेदनावशाद् दुष्टविचारोऽप्यागच्छति- आत्मघातं - कुर्याम्.... इति । अन्ते, पितृभ्यां सह चर्चा विधाय तस्यै कथितम् - रूपे ! अत्राऽहं । सखीभिः सहाऽटामि, व्यसनं दुराचारं चाऽऽसेवे-इति शङ्का त्वद्द्यस्ति । अत एतां नगरी ! विहाय कर्णावतीनगरे गच्छेव, यतस्ते चेतसि शान्तिर्भवेत् । तत्क्षणमेव निर्णयः कृतः ।। दुःखिनौ मातरपितरौ स्वकीयगृहं वाणिज्यं च विहायाऽ श्रूणि मुञ्चन्नहं पन्या सहाऽत्र | कर्णावतीनगरे वसितुमागतवानस्मि ।
गुरुदेव ! मम दुर्भाग्यवशादत्राऽप्येष एव संघर्षो निरन्तरं प्रवर्तते । दश दिनानि । व्यतीतानि । एकदा सहसैव साऽवोचत् - रात्रौ दीर्घकालानन्तरं त्वं सदनमायासि । अत्राऽपि ! ते प्रेमिका वसति, अत एव त्वमन्यन्नगरं विहायाऽत्राऽऽगतवान् । एवं वेश्मनि पूर्ववत् । क्लेशस्य प्रारम्भो जातः । ह्य एव मे मित्रं विदेशत आगतवान् । पञ्चवर्षेभ्यः पश्चात् स । मीलितवान् । अतस्तेन सह सानन्दं भोजनं कृतं, चर्चा चाऽपि विहिता । प्रात:काले ! विमानोड्डयनस्य समय आसीत् । ततो विमानस्थानकस्य समीपस्थे कस्मिन्नुपाहारगृहे । तेनाऽऽश्रयः कृत आसीत् । ततस्तत्स्थाने तं मोचयितुं निशि गतवानहम् । तदा रूपामुद्दिश्य । मित्रेण जल्पितम् - भ्रातृजाये ! दीर्घकालादावां द्वौ मीलितौ स्वः, ततो रमेशस्याऽऽगमने ! कदाचिद् बहुः कालः स्यात् तदा चिन्ता न करणीया । द्वावपि गतवन्तौ । स्थानमवाप्याऽऽकण्ठं । वार्तालापः कृतः । क्षपायां साढ़ेंकवादनः समयो जातः । तदा 'अर्धघण्टयाऽऽगमिष्यामि' ! इति गृहे दूरभाषध्वनिः कृतो मया । किञ्चित्कालानन्तरं वेश्मनि गन्तुमुत्थितः, किन्तु द्वार्येव । वार्तालापे एकघण्टासमयो व्यतीतः । ततो निर्गन्तुमहं मुहुर्मुहुः प्रयत्नः कृतवान्, किन्तु स । सखा मां मोक्तुं नेच्छन्नासीत् । तथाऽपि खिन्नमानसोऽहं ततो निर्गतः । अतितीव्रगत्या यानं ! चालयित्वा झटिति भवनमागच्छम् । आकारिका ध्वानिता । पुनः पुनराकारिका ध्वानिता। किन्तु तया द्वारं नोद्घाटितम् । प्रायो विंशतिः क्षणं बहि: स्थितवान् । अन्ते, दिपावलीपर्वणि | गृहमागतेन जनकेन द्वारमुद्घाटितम् । अहं ममाऽपवरके आगतवान् । सा मां निरीक्ष्य पृष्ठं परावर्त्य शयिता । किमप्यनुक्त्वाऽहमपि शयितवान् । ततः शयनादुत्थाय तया प्रकाशः । कृतः । किं करोषि ? इति गदितवानहम् । तदा भ्रूकुटिमूर्वीकृत्य "एतावत्कालं कुत्र ! गतवान् । कया सह निश्यटसि स्म । रात्रावपि का कन्या त्वया सहाऽटितुं सिद्धा जाता' ।। समीपमागत्य- ‘पश्य, पश्य तव वदनाद् मद्यपानस्य दुर्गन्ध आयाति' इत्यवोचत् सा ।।
-
-
-
-
-
-
२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138