________________
तृतीयशिक्षाव्रतस्वरूपम् - श्लो० ३९ ॥ ]
[ १५७
ऐतेषां चाहारादिपदानां चतुर्णां देश- सर्वविशेषितानामेकद्व्यादिसंयोगजा अशीतिभङ्गा भवन्ति ।
तथाहि –एककसंयोगाः प्रागुक्ता एवाष्टौ ।
द्विकसंयोगाः षट्, एकैकस्मिश्च द्विकयोगे देदे १ देस २ सदे ३ सस ४ एवं चत्वारश्चत्वारो भङ्गा भवन्ति, सर्वे चतुर्विंशतिः ।
त्रिकयोगाश्चत्वारो भवन्ति, एकैकस्मिश्च त्रिकयोगे देशसर्वापेक्षया देदेदे १ देदेस २ देसदे ३ देसस ४ सदेदे ५ सदेस ६ ससदे ७ ससस ८ एवमष्टावष्टौ भवन्ति, सर्वे द्वात्रिंशत् ।
चतुष्कयोग एकः, तत्र देशसर्वापेक्षया षोडशभङ्गा देदेदेदे १ देदेदेस २ देदेसदे ३ देदेसस ४ देसदेदे ५ देसदेस ६ देससदे ७ देससस ८ सदेदेदे ९ सदेदेस १० सदेसदे ११ सदेसस १२ ससदेदे १३ ससदेस १४ सससदे १५ सससस १६ एवं सर्वेषां मीलनेऽशीतिर्भङ्गाः स्युः ।
स्थापनायन्त्रकाणि चेमानि - एतेषां मध्ये पूर्वाचार्यपरम्परया समाचारीविशेषेणाहारपोषध एव देशसर्वभेदाद् द्विधापि सम्प्रति क्रियते, निरवद्याहारस्य सामायिकेन सहाविरोधदर्शनात् । सर्वसामायिकव्रतवता साधुना उपधानतपोवाहिश्रावकेणाप्याहरग्रहणात् । शेषास्त्रयः पोषधाः, सर्वत एवोच्चार्यन्ते, देशतस्तैः प्रायः सामायिकस्य विरोधात् । यतः सामायिके "सावज्जं जोगं पच्चक्खामि " इत्युच्चार्यते । शरीरसत्कारादित्रये तु प्रायः सावद्यो योगः स्यादेव । निरवद्यदेहसत्कारव्यापारावपि विभूषादिलोभनिमित्तत्वेन सामायिके निषिद्धावेव । आहारस्य त्वन्यथा शक्त्यभावे धर्मानुष्ठाननिर्वाहार्थं साधुवदुपासकस्याप्यनुमतत्वात् । उक्तं चावश्यकचूर्णी -
पोषधस्याशीतिभङ्गयन्त्रकाणि
आहारशरीरयोगे ४
एक संयोगादेशत: ४
आ०पो० दे० १
स०पो० दे० २
बं०पो० दे० ३
अ०पो० दे० ४
एककभङ्गाः सर्वतः ४
आ०पो०स० ५
स०पो०स० ६
बं०पो०स० ७
अ०पो०स० ८
आ०पो० दे०स०पो० दे० १
आ०पो० दे०स०पो०स० २
आ०पो० दे०स०पो० दे० ३
आ०पो०स०स०पो०स० ४
१. तुला - श्राद्धप्रतिक्रमणवृत्तिः प० १६३ ॥
D:\new/d-1.pm5\3rd proof
आहारब्रह्मयोगे ४
आ-पो० दे० बं०पो० दे० ५ आ०पो० दे०बं०पो०स० ६ आ०पो०स०बं०पो०दे० ७ आ०पो०स० बं०पो०स० ८