Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 480
________________ ४४० ] [ धर्मसंग्रहः- द्वितीयोऽधिकारः तत्रावज्ञापरत्वात् ४। सूक्ष्मं तृणग्रहणादिरूपमालोचयति, न तु बादरम्, सूक्ष्मालोचको ि कथं बादरं नालोचयेदिति ज्ञापनार्थम् ५। छन्नमव्यक्तस्वरम् ६ । तथा शब्दाकुलं यथा गुरुः सम्यग् नावगच्छति, यद्वाऽन्येऽपि यथा शृण्वन्ति तता शब्दाकुलम् ७ | 'बहुजन'त्ति बहवो जना आलोचनागुरवो यत्रालोचने तद्बहुजनं यथा भवत्वेवमालोचयति, एकस्यापराधस्य बहुभ्यो निवेदनमित्यर्थः ८ । अव्यक्तस्यानवगतच्छेदग्रन्थरहस्यस्य गुरोरालोचयति ९ । यमपराधमालोचयिष्यति तमेवासेवते यो गुरुः स तत्सेवीति, यतः - समानशीलाय गुरवे सुखेनैव विवक्षितापराधो निवेदयितुं शक्यते इति तत्सेविने निवेदयतीति १०। तदेते दश दोषा आलोचकेन वर्ज्जनीयाः । अविधिनालोचने च प्रत्युतापायसम्भवात् । यतः - " इहरा विवज्जओऽवि हु, कुवेज्जकिरिआइ णायओ ओ अवि होय (ज्ज ) तत्थ सिद्धी, आणाभंगा न उण एत्थ " ॥१॥ [ पञ्चा. १५/५ ] इति । सम्यगालोचने गुणानाह - - "लहुआ १ ल्हाईजणणं २, अप्पपरनिवत्ति ३ अज्जवं ४ सोही ५ । दुक्करकरणं ६ आणा ७, निस्सल्लत्तं च ८ सोहिगुणा ॥१॥ [ सं.प्र.आ.२८, श्रा.जी. १९] तथा भारवाहिनो भारेऽपहते लघुता तथा शल्योद्धारे आलोचकस्यापि १, 'ल्हादिजननं' प्रमोदोत्पादः २, आत्मपरयोर्दोषेभ्यो निवृत्तिः, आलोचनादाने हि स्वयं दोषनिवृत्तिः प्रतीता, तत् दृष्ट्वाऽन्येऽप्यालोचनाभिमुखाः स्युरित्यन्येषामपि दोषेभ्यो निवृत्तिः ३, ‘आर्जवं' निर्मायता सम्यगालोचनात् ४, 'शोधि : ' शुद्धिता अतिचारमलापगमात् ५, 'दुष्करकरणं' दुष्करकारिता, यतो यत्प्रतिसेवनं तन्न दुष्करम् अनादिभवाभ्यस्तत्वात् यत्पुनरालोचयति तद् दुष्करं प्रबलमोक्षानुयायिवीर्योल्लासविशेषेणैव तस्य कर्तुं शक्यत्वात् । निशीथचूर्णावप्यूचे - " "तं न दुक्करं, जं पडिसेविज्जइ, तं दुक्करं, जं सम्म आलोइज्जइ त्ति" [ नि.चू. ] अत एव आभ्यन्तरतपोरूपं सम्यगालोचनं मासक्षपणादिभ्यो दुष्करम् ६, तथा आज्ञा तीर्थकृतामाराधिता स्यात् ७, निःशल्यत्वं ८ स्पष्टम् । उक्तं चैकोनत्रिंशदुत्तराध्ययने - “आलोयणयाए णं भंते ! जीवे किं जेणयइ ?, आलोयणयाए णं मायानियाणमिच्छादंसणसल्लाणं अणंतसंसारवड्ढमाणाणं उद्धरणं करेइ, उज्जुभावं च णं जणयइ । १. होय (इ)- मु० । होज्ज - पञ्चाशके ॥ २. शुद्धता - इति श्राद्धविधिवृत्तौ प० २९ A ॥ ३. °तपोभेदरूपं श्राद्धविधिवृत्तौ ॥ ४. 'भ्योऽपि दु० इति श्राद्धविधिवृत्तौ ॥ ५. L.P. I जणइ-मु० C. ॥ D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500