Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
४५२]
[धर्मसंग्रहः-द्वितीयोऽधिकार: प्रेतोपहार: पत्रपुष्पफलाक्षाढ्यः सुरभिगन्धोदकोन्मिश्रः सिद्धान्नप्रक्षेपरूपो, दीनदानं कृपणेभ्योऽनुकम्पावितरणमिति ॥१८॥ "तत्तो पडिदिणपूआविहाणओ तह तहेव कायव्वं ।। विहिआणुट्ठाणं खलु , भवविरहफल जहा हुंति" ॥१९॥ [ पञ्चा.८/५० ] इति ।
प्रतिष्ठानन्तरं च द्वादश मासान् विशिष्य च प्रतिष्ठादिने स्नात्रादि कृत्वा सम्पूर्णे वर्षेऽष्टाहिकादिविशेषपूजापूर्वमायुर्ग्रन्थिबन्धनीयः, उत्तरोत्तरं विशेषपूजा च कार्येति प्रतिष्ठाद्वारम् ३। ___ तथैव प्रौढोत्सवैः सुतादिनामादिशब्दात् पुत्रभ्रातृभ्रातृव्यस्वजनसुहृत्परिजनादीनां दीक्षादापनम् , उपलक्षणत्वादुपस्थापनाकारणं च, श्रूयतेऽपि कृष्ण-चेटकनृपयोः स्वापत्यविवाहनेऽपि नियमवतोः स्वपुत्र्यादीनामन्येषां च थावच्चापुत्रादीनां प्रौढोत्सवैः प्रव्राजना इयं च महाफला ४। यतः - "ते धन्ना कयपुण्णा, जणओ जणणी अ सयणवग्गो अ। जेसिं कुलम्मि जायइ, चारित्तधरो महापुत्तो" ॥१॥[ ] इति । द्वारम् ।।
तथा पदस्थापना गणिवाचनाचार्यादिपदप्रतिष्ठापनम् , दीक्षितस्वपुत्रादीनामन्येषां वा पदार्हाणां शासनोन्नत्यादिनिमित्तं प्रौढोत्सवैविधाप्या । श्रूयते हि प्रथमेऽर्हतः समवसरणे सौधर्मेन्द्रेण गणधरपदस्थापनाकारणम् , मन्त्रिवस्तुपालेनाप्येकविंशतिसूरीणां पदस्थापना कारितेति द्वारम् ५।
तथा पुस्तकानां श्रीकल्पाद्यागमजिनचरित्रादिसत्कानां न्यायार्जितवित्तेन विशिष्ट पत्रविशुद्धाक्षरादियुक्त्या लेखनम् । तथा वाचनं संविग्नगीतार्थेभ्यः प्रौढाडम्बरैः प्रत्यहं पूजादिबहुमानपूर्वकं व्याख्यापनम् , उपलक्षणत्वात् तद्वाचनभणनादिकृतां वस्त्रादिभिरुपष्टम्भदानम् । यत: - "ये लेखयन्ति जिनशासनपुस्तकानि, व्याख्यानयन्ति च पठन्ति च पाठयन्ति । शृण्वन्ति रक्षणविधौ च समाद्रियन्ते, ते मर्त्यदेवशिवशर्म नरा लभन्ते ॥१॥
[उपदेशतरङ्गिणी श्लो.४० ] इत्यादि । __ पूर्वं जिनागमे धनवपनाधिकारे प्रदर्शितमेवेति द्वारम् । तथा पौषधशालायां श्राद्धादीनां पौषधादिग्रहणार्थं साधारणस्थानस्य निरवद्यधर्मिजनाकीर्णस्थाने विधापनम् ,
१. P.C.L. पञ्चाशकटीका च । ताद्यः(ढ्यः)-मु० ॥ २. हुंति (होर)-मु० । होति-पञ्चाशके । ३. पुत्री इति श्राद्धविधिवृत्तौ प० ४१ A ॥ ४. पत्रविशिष्टविशुद्ध इति श्राद्धविधिवृत्तौ ॥
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500