Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
४५४]
[ धर्मसंग्रहः - द्वितीयोऽधिकारः त्रीन् मासानुभयकालमप्रमत्तः पूर्वोक्तप्रतिमानुष्ठानसहितः सामायिकमनुपालयतीति तृतीया ३।
चतुरो मासांश्चतुष्पर्व्यां पूर्वप्रतिमानुष्ठानसहितोऽखण्डितं पौषधं पालयतीति चतुर्थी ४ | पञ्च मासांश्चतुष्पव्र्व्यां गृहे तद्द्वारे चतुष्पथे वा परीषहोपसर्गादिनिष्कम्पकायोत्सर्गः पूर्वोक्तप्रतिमानुष्ठानं पालयन् सकलां रात्रिमास्त इति पञ्चमी ५ ।
एवं वक्ष्यमाणास्वपि प्रतिमासु पूर्वपूर्वप्रतिमानुष्ठाननिष्ठताऽवसेया, नवरं षण्मासान् ब्रह्मचारी भवतीति षष्ठी ६।
सप्त मासान् सचित्ताहारान् परिहरतीति सप्तमी ७|
अष्टौ मासान् स्वयमारम्भं न करोतीत्यष्टमी ८।
नव मासान् प्रेष्यैरप्यारम्भं न कारयतीति नवमी ९ ।
दश मासानात्मार्थं निष्पन्नमाहारं न भुङ्क्त इति दशमी १०।
एकादश मासांस्त्यक्तसङ्गो रजोहरणादिमुनिवेषधारी कृतकेशोत्पाटः स्वायत्तेषु गोकुलादिषु वसन् प्रतिमाप्रतिपन्नाय श्रमणोपासकाय भिक्षां दत्त' इति वदन् धर्मलाभशब्दोच्चारणरहितं सुसाधुवत् समाचरतीत्येकादशी ११ । उक्तं च -
" दंसणपडिमा नेया, सम्मत्तजुअस्स सा इहं बुंदी |
कुग्गहकलंकरहिआ, मिच्छत्तखओवसमभावा ॥१॥[पञ्चा.१०/४]
बीया पडिमा या सुद्धाणुव्वयधारण ।
2
सामाइ अपडिमा ऊ, सुद्धं सामाइअं पि अ ॥२॥ [ ] अमीमाइपव्वे सम्मं पोसहपालणं । सेसाणुट्ठाणजुत्तस्स, चउत्थी पडिमा इमा ॥३॥ [ ] निक्कंपो काउस्सग्गं तु, पुव्वुत्तगुणजुओ ।
करेइ पव्वराईसुं, पंचमि पडिवन्नओ ॥४॥[ ]
तथा— असिणाण विअडभोई, मउलिउडो दिवसबंभारी
रति परिमाणकडो, पडिमावज्जेसु दिअएसु ॥५॥ [ पञ्चा.१०/१८ ]
मउलिउड त्ति अबद्धकच्छः ।
१. L.P.C. । बीआ य-पञ्चाशके । बिईया - मु० ॥ २. C. योगशास्त्रवृत्तौ च । पंचमीं- मु० ॥ ३. L.P.C. । तथा मु० नास्ति ॥
D:\new/d-2.pm5\ 3rd proof

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500