Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
४५६]
[ धर्मसंग्रहः- द्वितीयोऽधिकारः
जइपज्जवासणपरो, सुहुमपयत्थेसु णिच्चतल्लिच्छो । पुव्वोदिअगुणजुत्तो, दसमासा कालमासेण ॥१२॥ [ पञ्चा.१०/३४] एकारसीसु निस्संगो, धरे लिंगं पडिग्गहं । कयलोओ सुसाहु व्व, पुव्वुत्तगुणसायरो ॥ १३॥ [ ]
पुव्वाउत्तं कप्पइ, पच्छाउत्तं तु ण खलु एअस्स ।
ओयणभिलिंगसूआइ, सव्वमाहारजायं तु" ॥१४॥ [ पञ्चा.१०/३७ ] इति । आवश्यकचूर्णौत्वित्थं – राइभत्तपरिण्णा पंचमी, सच्चित्ताहारपरिण्णा इति षष्ठी, दिआ बंभचारी, राओ परिमाणकडे त्ति सत्तमी, दिया वि राओ वि, बंभयारी, असिणाणए वोसट्टकेसमंसुरोमनहे त्ति अष्टमी, पेसारंभपरिण्णाए त्ति दशमी, उद्दिट्ठभत्तविवज्जए समणभूए त्ति एकादशीति ॥६९॥ [ भा० २, प० १२० ]
निरूपिता एकादश श्रावकप्रतिमाः, अथ गृहिधर्मोपवर्णनमुपसंहरन्नाह – प्ररूपितो जिनैरेवं गृहिधर्मो विशेषतः ।
सतामनुष्ठेयतया, चारित्रगिरिपद्यिका ॥७०॥
‘एवम्' उक्तनीत्या ‘जिनैः' अर्हद्भिः 'विशेषतः ' सामान्यगृहस्थधर्मवैलक्षण्येन गृहिणो –गृहस्थस्य धर्मः परमाप्तप्रणीतवचनानुसारी मैत्र्यादिभावभावितोऽनुष्ठानविशेषः, 'प्ररूपित' उपदिष्टः, स च पृथ्वीधरसरित्समुद्रद्वीपादिसदावस्थितभाववत् केवलं ज्ञेयतया मिथ्यात्वाद्याश्रववद्धेयतया वोपदिष्टो भविष्यतीत्याशङ्कायामाह – सतामित्यादि' 'सताम्' उत्तमानां मार्गानुसार्यादिभावापन्नानामित्यर्थः, ‘अनुष्ठेयतया' विधेयतया, सद्भिरयं विधेय इत्युपदिष्टइति भावः । कीदृशोऽसौ ? इत्याह -' चारित्रगिरिपद्यिका' इति चारित्रंसर्वसावद्ययोगपरिहारनिरवद्ययोगसमाचाररूपं तदेवगिरिः - पर्वतस्तस्य पद्यिकेव पधिका, पद्यारोहेण पुमान् यथा सुखेन महाशैलमारोहति तथा निष्कलङ्कानुपालित श्रमणोपासकाचारः सर्वविरतिं सुखेनावगाहत इति भावः । तदुक्तं धर्मबिन्दौ
-
"पदं पदेन मेधावी, यथाऽऽरोहति पर्वतम् ।
सम्यक् तथैव नियमाद्धीरश्चारित्रपर्वतम् " ॥ [ अ. ३ । प्रान्ते गा.१७ ] एवं च – स्तोकगुणाराधनानुपूर्व्या बहुगुणाराधनस्य न्याय्यत्वात् प्रथमं गृहस्थधर्मः प्रतिपादितः । तदुक्तं तदैव धर्मबिन्दौ -
१. आरंभपरिण्णाते पेसा' इति आवश्यकचूर्णौ प्रवचनसारोद्धारवृत्तौ [ भा० २प० २२८] द्रष्टव्यम् ॥
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 494 495 496 497 498 499 500