Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 497
________________ गृहिधर्मोपसंहार:-श्लो० ७०॥] [४५७ "स्तोकान् गुणान् समाराध्य, बहूनामपि जायते । यस्मादाराधनायोग्यस्तस्मादादावयं मतः" ॥१॥[अ.३ । प्रान्ते गा.१८] इति । अयं च पुरुषविशेषापेक्षो न्यायः । अन्यथा तथाविधाध्यवसायसामर्थ्याद्विरलीभूतचारित्रमोहानां स्थूलभद्रादीनामेतत्क्रममन्तरेणापि परिशुद्धसर्वविरतिलाभस्य शास्त्रेषु श्रूयमाणत्वात् , कालविशेषापेक्षोऽप्ययमेव न्यायोऽनुसरणीयः । यतः पञ्चमारके प्रतिमापरिपालनपर्यन्तश्राद्धधर्मानुगृहीतचित्तस्यैव यतिधर्मप्रतिपत्तिः पञ्चाशकेऽभिहिता । तथा च तद्वचः - "जुत्तो पुण एस कमो, ओहेणं सपयं विसेसेणं । जम्हा विसमो कालो, दुरणुचरो संजमो एत्थ" ॥१॥[पञ्चा.१०।४९] इति ॥७१।। इति परमगुरुभट्टारकश्रीविजयानन्दसूरिशिष्यपण्डितश्रीशान्तिविजयगणिचरणसेविमहोपाध्यायश्रीमानविजयगणिविरचितायां स्वोपज्ञधर्मसंग्रहवृत्तौ विशेषतो गृहिधर्मव्यावर्णनो नाम द्वितीयोऽधिकारः । ग्रन्थाग्रम् १८४२३ इति धर्मसंग्रहस्य द्वितीयोऽधिकारः ॥ इति श्री धर्मसंग्रहस्य पूर्वभागः ॥ १. P.L.C. मूल. । ९४३२-मु० C. संशो० ।। D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 495 496 497 498 499 500