Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 493
________________ ११ श्रावकप्रतिमास्वरूपम्-श्लो० ६९॥] [४५३ सा च धर्मिजनार्थं कारिता प्रगुणिता च निरवद्यार्हस्थानत्वेन यथावसरं साधूनामप्युपाश्रयत्वेन प्रदेया, तद्दानस्य च महाफलम् ७। यतः - "जो देइ उवस्सयं जइवराण तवणिअमजोगजुत्ताणं । तेणं दिण्णा वत्थन्नपत्तसयणासणविगप्पा" ॥१॥ इति द्वारगाथा समाप्ता । श्राद्धविधौ तु गृहनिर्मापणादीन्यपि कर्माणि जन्मकृत्येषु न्यस्तानि, परं तानि सामान्यगृहिधर्माधिकारीयाणीति तत्रैव लिखितानि । व्रतादीन्यपि पूर्वं व्याख्यातत्वान्नात्र लिखितानि । प्रतिमानुष्ठानं च विशेषत उपयोगित्वात् स्वतन्त्रमेव मूले वक्ष्यत इति नात्रोक्तमिति जन्मकृत्यानि ॥६८॥ अथ प्रतिमापालनरूपं जन्मसंबन्ध्येव कृत्यं स्वातन्त्र्येणाह - विधिना दर्शनाद्यानां, प्रतिमानां प्रपालनम् । यासु स्थितो गृहस्थोऽपि, विशुद्धयति विशेषतः ॥६९॥ 'विधिना' दशाश्रुतस्कन्धाद्यागमप्रतिपादितेन, दर्शनं -सम्यक्त्वं तत्प्रधाना तेनोपलक्षिता वा प्रतिमापि दर्शनम् , सा आद्या -प्रथमा यासां प्रतिमानां ता दर्शनाद्यास्तासाम् , एकादशसङ्ख्यानामित्यर्थः । 'प्रतिमानाम्' अभिग्रहविशेषाणां प्रपालनं' प्रकर्षेण पालनम् , विशेषतो गृहिधर्मो भवतीत्यन्वयः । आसां पालने किं भवति ? इत्याह –'यास्वित्यादि' 'यासु' प्रतिमासु 'स्थितो' निष्ठः 'गृहस्थोऽपि' यतितामप्राप्नुवन्नपि, आस्तां कृतसर्वसङ्गत्यागोऽनगारइत्यपिशब्दार्थः, विशेषतः' असङ्ख्यगुणया गुणश्रेण्या विशुद्धयति' क्षीणपापो भवति । अथ पुन: का: प्रतिमा:? यासु स्थितो गृहस्थोऽपि विशेषतः शुद्धयति । उच्यते - "दंसण १ वय २ सामाइअ ३ पोसह ४ पडिमा ५ अबंभ ६ सच्चित्ते ७ । आरंभ ८ पेस ९ उद्दिट्ट १०, वज्जए समणभूए अ" ॥१॥[पञ्चा.१०/३] इति । तत्र शङ्कादिदोषरहितं प्रशमादिलिङ्ग स्थैर्यादिभूषणं मोक्षमार्गप्रासादपीठभूतं सम्यग्दर्शनं भयलोभलज्जादिभिरप्यनतिचरन् मासमात्रं सम्यक्त्वमनुपालयतीत्येषा प्रथमा प्रतिमा ११ द्वौ मासो यावदखण्डितान्यविराधितानि च पूर्वप्रतिमानुष्ठानसहितानि द्वादशापि व्रतानि पालयतीति द्वितीया २। १. वत्थन्नपाणस' इति श्राद्धविधिवृत्तौ प० ४२ A ॥ २. तुला. योगशास्त्रवृत्तिः ३।१४८, प० ७६१तः ।। D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500