Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 491
________________ प्रतिष्ठाविधिः-श्लो० ६८॥] [४५१ "जह सिद्धाण पसिद्धा ( पइट्ठा ) तिलोगचूडामणिमि सिद्धिपए। आचंदसूरिअं तह, होउ इमा सुप्पति? त्ति" ॥१३॥[पञ्चा.८/३४] कण्ठ्या । शेषा मङ्गलगाथा अतिदेशत आह - "एवं अचलादिसु वि, मेरुप्पमुहेसु हुंति वत्तव्वं ।। एते मंगलसद्दा, तम्मि सुहनिबंधणा दिट्ठा" ॥१४॥[पञ्चा.८/३५] प्रतिष्ठायां च स्नात्रैर्जन्मावस्थां फलनैवेद्यपुष्पविलेपनसङ्गीताद्युपचारैः कौमाराद्युत्तरोत्तरावस्थां छाद्मस्थ्यसूचकाच्छादनाच्छादितकायत्वाद्यधिवासनया शुद्धचारित्रावस्थां नेत्रोन्मीलनेन केवलोत्पत्त्यवस्थां सर्वाङ्गीणपूजोपचारैश्च समवसृत्यवस्थां चिन्तयेदिति श्राद्धसमाचारीवृत्तौ । अथ प्रतिष्ठानन्तरं यद्विधेयं तदाह - "सत्तीए संघपूजा, विसेसपूजा उ बहुगुणा एसा । जं एस सुए भणिओ, तित्थयराणंतरो संघो" ॥१५॥ [ पञ्चा.८/३८] तथा- "उचिओ जणोवयारो, विसेसओ णवरि सयणवग्गंमि । साहम्मिअवग्गंमि अ, एअं खलु परमवच्छल्लं" ॥१६॥ [ पञ्चा.८/४७] तथा- "अट्टाहिआ य महिमा, सम्म अणुबंधसाहिगा केई। अण्णे उ तिण्णि दिअहे, णिओगओ चेव कायव्वा" ॥१७॥[ पञ्चा.८/४८] अष्टाहिका महिमा कार्या, सा ह्यनुबन्धसाधिका-पूजाऽविच्छेदगमिका भवतीति केचिदाचार्या आहुः, अन्ये तु त्रीन् दिवसान् यावत् महिमा नियोगत एव -नियमेनैव कार्येति ॥१७॥ षोडशकेऽपि - "अष्टौ दिवसान् यावत् , पूजाऽविच्छेदतोऽस्य कर्त्तव्या । दानं च यथाविभवं, दातव्यं सर्वसत्त्वेभ्यः" ॥[षोड.८/१६] इति । ततो महिमानन्तरं कर्त्तव्यमाह - "तत्तो विसेसपूआपुव्वं विहिणा पडिस्सरोम्मुअणं । भूअबलिदीणदाणं, एत्थं पि ससत्तिओ किं पि" ॥१८॥[पञ्चा.८/४९] ततो विशेषपूजापूर्वं प्रतिसरोन्मोचनं -कङ्कणविमोचन विधेयम् , तथा भूतबलिः १. पसिद्धा-C.P. | पइट्ठा-पञ्चाशके । [पसिद्धा] पइट्ठा-मु० ॥ २. L.P.C. | कङ्कणमो मु० ॥ D:\new/d-2.pm53rd proof

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500