Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 490
________________ ४५०] [धर्मसंग्रहः-द्वितीयोऽधिकारः अधिवासनगतं विध्यन्तरमाह - "उक्कोसिआ य पूआ, पहाणदव्वेहिँ एत्थ कायव्वा । ओसहिफलवत्थसुवण्णमुत्तरयणाइएहि च" ॥९॥ [ पञ्चा.८/२९] उत्कर्षिका पूजाऽर्हद्विम्बस्य प्रधानद्रव्यैश्चन्दनागरुकर्पूरपुष्पादिभिः, अत्र -अधिवासनावसरे, कर्त्तव्या, तथा औषध्यादिभिश्च प्रतीतैः, परम् औषध्यो व्रीह्यादयः । फलानि नालिकेरदाडिमादीनीति ॥९॥ तथा- "चित्तबलिचित्तगंधेहिं चित्तकुसुमेहिं चित्तवासेहिं । चित्तेहिं विऊहेहिं, भावेहिं विहवसारेणं" ॥१०॥ [ पञ्चा.८/३०] चित्रबलिचित्रगन्धैः पूजा कर्त्तव्येति प्रकृतम् , 'चित्तेहिं विऊहेहिं'ति व्यूहै रचनाविशेषैः, भावैश्च रचनागतैः प्रक्रीडितप्रमुदितालिङ्गितादिभिर्भक्तिसारैविभवसारेण - विभूत्युत्कर्षेणेति ॥१०॥ पूजाद्यनन्तरं यत्कर्त्तव्यं तदाह - "चिइवंदण थुइवुड्डी, उस्सग्गो साहु सासणसुरीए । थयसरण पूअ काले, ठवणा मंगलगपुव्वा उ" ॥११॥ [ पञ्चा.८/३२] चैत्यवन्दना प्रतीता कर्त्तव्या, स्तुतिवृद्धिः प्रवर्द्धमानस्तुतिपाठरूपा कर्त्तव्या, कायोत्सर्गः, साधु यथा भवति असंमूढतयेत्यर्थः, कस्या आराधनाय ? इत्याह -शासनसुर्याः, स्तवस्मरणं चतुर्विंशतिस्तवानुचिन्तनं कायोत्सर्गे कार्यम् , अथवा चतुर्विंशतिस्तवः पठनीयः, स्मरणं चैषु गुर्वादीनामिति, ततः पूजा कार्या बिम्बस्य प्रतिष्ठाकारस्य वा, ततः काले प्रतिष्ठालग्नस्याभिमतांशे, स्थापना जिनबिम्बस्य, मङ्गलपूर्वा तु पञ्चनमस्कारपूर्वैव कर्त्तव्येति ॥११॥ ततश्च- "पूआ वंदणमुस्सग्ग, पारणा भावथेज्जकरणं वा। सिद्धाचलदीवसमुद्दमंगलाणं च पाढो उ" ॥१२॥ [ पञ्चा.८/३३] पूजा प्रतिष्ठितबिम्बस्य विधेया, वन्दनं चैत्यवन्दनं, कायोत्सर्गः, पारणा च तस्य कार्या, तथा भावस्थैर्यकरणं चित्तस्थिरतासंपादनम् भावेन वा आशीर्वचनहेतुभूतेन प्रतिष्ठास्थैर्यकरणं च विधेयमत एवाह -सिद्धाचलद्विपसमुद्रमङ्गलानां च -सिद्धाधुपमोपेतमङ्गलगाथानां वक्ष्यमाणरूपाणां, पाठोऽभिधानं विधेयः ॥१२॥ स यथा - १. चित्त वि. C.P. || २. चेष्ट-इति पञ्चाशकवृत्तौ ॥ D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500