Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 486
________________ ४४६] [धर्मसंग्रहः-द्वितीयोऽधिकारः बिम्बकारणविधिस्त्वेवम् - "जिनबिम्बकारणविधिः, काले पूजा पुरस्सरं कर्तुः । विभवोचितमूल्यार्पणमनघस्य शुभेन भावेन" ॥१॥[ षोड.७/२] काले तदुचितावसरे, कर्तुः सूत्रधारस्य, पूजापूर्वकम् , विभवोचितं स्वसमृद्ध्यनुरूपम् , यन्मूल्यं वेतनम् , तस्यार्पणं दानम् , अनघस्य –निर्दोषस्य कर्तुः शुभेन भावेन –उदारतया प्रवर्द्धमानप्रशस्ताध्यवसायेनेत्यर्थः । अनघशिल्पिनोऽभावे यद्विधेयं तदाह - "नार्पणमितरस्य तथा, युक्त्या वक्तव्यमेव मूल्यमिति ।। काले च दानमुचितं, शुभभावेनैव विधिपूर्वम् ॥२॥ [ षोड.७/३] इतरस्य सदोषस्य, तथा स्वविभवोचितमूलस्य नार्पणं -न दानम् , तदा कथं देयम् ? इत्याह –मूल्यं बिम्बवेतनम् , युक्त्या वक्तव्यं यथेयता द्रव्येणेयद्विम्बं विधातव्यं भवता, तथा भागशो मूल्यं दास्यामीति, काले च कालमाश्रित्य च, यदुचितं तस्य दानम् , क्वचित्काले लघावपि बिम्बे मूल्यं प्रचुरं स्यात् , कदाचिच्चाल्पमिति, शुभभावेनेति, बिम्बार्थं कल्पितद्रव्यभक्षणतो यद्विम्बकर्तुः संसारगर्तपतनं तद्रक्षणलक्षणेनेत्यर्थः । ___ तथा चैत्यप्रतिमादिविधापने च भावशुद्ध्यै गुरुसङ्घसमक्षमेवं वाच्यं -यदत्राविधिना किञ्चित् परवित्तमागतं तत् पुण्यं तस्य भूयात् । तदुक्तं षोडशके - "यद्यस्य सत्कमनुचितमिह वित्तं तस्य तज्जमिह पुण्यम् । भवतु शुभाशयकरणादित्येतद् भावशुद्धं स्यात्" ॥१॥[ षोड.७/१०] अत्र च मन्त्रन्यासो । यथा तत्रैवोक्तम् - "मन्त्रन्यासश्च तथा, प्रणवनमःपूर्वकं च तन्नाम । मन्त्रः परमो ज्ञेयो, मननत्राणे ह्यतो नियमात्" ॥२॥ [ षोड.७/११] इति बिम्बकारणविधिः । प्रतिमाश्च मणिस्वर्णादिमृत्तिकान्तद्रव्यनिष्पाद्या उत्कर्षतः पञ्चधनु:शतमाना जघन्यतोऽङ्गुष्ठमानाश्च यथाशक्ति विधाप्याः । तत्फलं च - "दालिदं दोहग्गं, कुजाइकुसरीरकुगइकुमईओ। अवमाणरोगसोगा, न हुँति जिणबिंबकारीणं ॥१॥[ ] प्रतिमाश्च वास्तुशास्त्रोक्तविधिनिष्पन्नाः सुलक्षणा अत्राप्यभ्युदयगुणहेतुः । यतः - १. L. सं० षोडशके च । विधिपूर्वः C.L. मू० ॥ D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500