Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 484
________________ ४४४] [धर्मसंग्रहः-द्वितीयोऽधिकारः अतिसन्धानं चैषां, कर्त्तव्यं न खलु धर्ममित्राणाम् । न व्याजादिह धर्मो, भवति तु शुद्धाशयादेव" ॥२॥[षोड.६/११] अथ स्वाशयवृद्धिद्वारमाह - "सासयवुड्डीऽवि इहं, भुवणगुरुजिणिंदगुणपरिणाए । तब्बिबठावणत्थं, सुद्धपवित्तीएँ णिअमेणं" ॥७॥ [ पञ्चा.७/२५] पेच्छिस्सं इत्थमहं, वंदणगणिमित्तमागए साहू। कयपुण्णे भगवंते, गुणरयणणिही महासत्ते ॥८॥ [ पञ्चा.७/२६ ] पडिबुज्झिस्संति इहं, दट्टण जिणिंदबिंबमकलंकं । अण्णेऽवि भव्वसत्ता, काहिंति ततो परं धम्मं ॥९॥[पञ्चा.७/२७] ता एअं मे वित्तं, जमित्थमुवओगमेइ अणवरयं । इअचिंताऽपरिवडिआ, सासयवुड्डी अमोक्खफला" ॥१०॥[पञ्चा.७/२८] एताः कण्ठ्याः । नवरं –यस्मादिह जिनभवने सति तद्विम्बस्थापनादि पूर्वोक्तं भविष्यति, तस्मादेतद्रव्यं मदीयमेव, यदत्र जिनभवने उपयोगं -विनियोगमति, अन्यत् सर्वं परमार्थतः परकीयमेवेत्यर्थः । इत्येवम्प्रकारा चिन्ता -विकल्पोऽप्रतिपतिता -अविच्छिन्ना स्वाशयवृद्धिः -कुशलपरिणामवर्द्धनं भवतीति गम्यम् । सा च मोक्षफलैवेति । अथ यतनाद्वारमाह - "जयणा य पयत्तेणं, कायव्वा एत्थ सव्वजोगेसुं । जयणा उ धम्मसारा, जं भणिआ वीअरागेहिं" ॥११॥ [ पञ्चा.७/२९] सा च स्वरूपेणेत्थं - “सा इह परिणयजलदलविसुद्धिरूवा उ होइ णायव्वा । अण्णारंभणिवित्तीएँ, अप्पणाहिट्ठणं चेव" ॥१२॥ [ पञ्चा.७/३३] सा पुनर्यतना, इह जिनभवनविधाने, परिणतं -प्रासूकं जलं दलं च तयोविशुद्धिः - अनवद्यता, त्रसरहितत्वादिलक्षणा, तत्स्वरूपा ज्ञातव्या, तथा अन्यारम्भनिवृत्त्या - कृष्याद्यारम्भत्यागेन, आत्मना -स्वयमेवाधिष्ठानं -जिनभवनारम्भाणामध्यासनमेव च, एषा यतना भवति ज्ञातव्येति प्रकृतम् । जिनभवनारम्भाणां हि स्वयमधिष्ठायकत्वं प्रतिपन्नो यथोचितं जीवान् रक्षयन् कर्मकरांस्तदारम्भेषु प्रवर्त्तयति, निरधिष्ठायकास्तु ते यथा कथञ्चित्तेषु १. इच्छिस्सं-P.C. || D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500