Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 483
________________ चैत्यनिर्माणविधिः-श्लो० ६८॥] [४४३ शकुनाशकुनयोरेव स्वरूपोद्देशमाह - "णंदाइ सुहो सद्दो, भरिओ कलसोऽत्थ सुंदरा पुरिसा । ज(सु)हजोगाई सउणो, कंदिअसद्दादि इअरो उ" ॥५॥[ पञ्चा.७/१९] 'नन्द्यादिः' नन्दीप्रभृतिः, तत्र नन्दीद्वादशतूर्यनिर्घोषः । तद्यथा - "भंभा-मउंग-मद्दल-कलंब-झल्लरि-हुडुक्ककंसाला। वीणा वंसो पडहो, संखो पणवो अ बारसमो" ॥१॥[] आदिशब्दात् घण्टाशब्दादिग्रहः । तथा 'भृतो' जलपरिपूर्णः 'कलसो' घटः, 'अत्र' व्यतिकरे, सुन्दराकारनेपथ्या नराः 'शुभयोगादि' प्रशस्तचेष्टाप्रभृति शुभचन्द्रनक्षत्रादि सम्बन्धादि वा 'शकुनो' विवक्षितार्थसिद्धिसूचकं निमित्तम् , 'क्रन्दितशब्दादि' आक्रन्दध्वनिप्रतिषेधवचनप्रभृति, पुन: इतरोऽशकुन इत्यर्थः । षोडशकेऽपि - "दार्वपि च शुद्धमिह यन्नानीतं देवताद्युपवनादेः । प्रगणं सारवदभिनवमच्चैर्ग्रन्थ्यादिरहितं च ॥१॥[षोड.६/८] सर्वत्र शकुनपूर्वं, ग्रहणादावत्र वर्तितव्यमिति । पूर्णकलशादिरूपश्चित्तोत्साहानुगः शकुनः" ॥२॥ [ षोड.६/९] अथ भृतकानतिसन्धानद्वारमाह - "कारवणेऽवि अ तस्सिह, भितगाणतिसंधणं ण कायव्वं । अविआहिगप्पदाणं, दिट्ठादिट्ठप्फलं एअं" ॥६॥[ पञ्चा.७/२१] 'कारापणे' विधापने अपि, चैत्यस्य –जिनभवनस्य, इह द्रव्यस्तवाधिकारे, भृतकानां कर्मकराणां सूत्रधारादीनाम् , अतिसन्धानं वञ्चनं देयद्रव्यापेक्षया न कर्त्तव्यम् , अपि च 'अधिकतरप्रदानं' प्रतिपन्नवेतनापेक्षया समर्गलतरद्रव्यवितरणम् , कर्त्तव्यमिति प्रकमः । यतो दृष्टादृष्टफलम् –उपलभ्यानुपलभ्यप्रयोजनमेतद् अधिकप्रदानमिति । अत्र च दृष्टफलं यथा ते भृतका वराका अधिकप्रदानेन तुष्टाः सम्यक् कार्यं कुर्वन्ति, अदृष्टफलं च धर्मप्रशंसया केचिद् बोधिबीजान्यप्युपार्जयन्तीति भावः । षोडशकेऽपि "भृतका अपि कर्त्तव्या, य इह विशिष्टाः स्वभावतः केचित् । यूयमपि गोष्ठिका इह, वचनेन सुखं तु ते स्थाप्याः ॥१॥ [ षोड.६/१०] १. सुहजोगाइ य सउणो-इति पञ्चाशके ॥ २. L.P.C. । चैत्यवत्तस्य-मु० ॥ D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500