Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 481
________________ [ ४४१ आलोचनागुणाः, जन्मकृत्यानि - श्लो० ६८ ॥] उज्जुभावपडिवन्ने अ णं जीवे अमायी इत्थीवेअं नपुंसगवेअं च न बंधइ, पुव्वबद्धं च णं निज्जरेइ" [ उ.सू.अ./ २९ ] इति । एते शोधेरालोचनाया गुणाः । इति श्राद्धजीतकल्प-तद्वृत्ति-पञ्चाशकतद्वृत्तिभ्य उद्धृतः किञ्चिदालोचनाविधिः । तीव्रतराध्यवसायकृतं बृहत्तरमपि निकाचितमपि बालस्त्रीहत्यादि महापापं सम्यगालोच्य गुरुदत्तप्रायश्चित्तविधाने दृढप्रहारिप्रभृतिवत् तद्भवेऽपि क्षीयत इति प्रतिवर्षं प्रतिचातुर्मासकं वाऽऽलोचना दातव्येति वर्षकृत्यानि ॥ अथ जन्मकृत्यानि यथा - “चेइअ १ पडिम २ पइट्ठा ३, सुआइपव्वावणा य ४ पट्टणा५ । पुत्थयलेहणवायण ६ पोसहसालाइ कारवणं ७" ॥१॥[ श्रा.वि./१५] तत्र ‘चैत्यं' जिनभवनं तस्य निर्मापणम्, तच्च विधेयतया पूर्वं सप्तक्षेत्र्यधिकारे उक्तमपीदानीं तद्विधिः प्रदर्श्यते – एवं जिनप्रतिमाकारण-पुस्तकलेखनयोरपि भाव्यम् । तत्र प्रथमं तदधिकारी इत्थं षोडशके - "न्यायार्जितवित्तेशो, मतिमान् स्फीताशयः सदाचारः । गुर्वादिमतो जिनभवनकारणस्याधिकारीति" ॥१॥ [ षोड.६/२] पञ्चाशकेऽपि “अहिगारी अ गिहत्थो, सुहसयणो वित्तसंजुओ कुलजो । अखुद्दो धिइबलिओ, मइमं तह धम्मरागी अ ॥१॥ [पञ्चा.७/४] गुरुपूआकरणरई, सुस्सूसाइगुणसंगओ चेव । णायाहिगयविहाणस्स धणिअमाणापहाणो य" ॥२॥ [ पञ्चा. ७/५ ] इति । — कण्ठ्ये । नवरम् –‘अखुद्द ' त्ति अक्षुद्रोऽकृपणः, 'धृतिबलिकः' चित्तसमाधानलक्षणसामर्थ्ययुक्तः, तथा ‘ज्ञाता' विद्वान्, कस्य ? इत्याह – 'अधिकृतविधानस्य' जिनभवनकारणविधेः, तथा धनिकमत्यर्थम्, आज्ञाप्रधानश्च' आगमपरतन्त्रश्चेति । अथ तद्विधिर्यथा - 'जिणभवणकारणविही, सुद्धा भूमी दलं च कट्ठाई । भिअगाणइसंधाणं, सासयवुड्डी अ जयणा य" ॥१॥ [ पञ्चा. ७/९] द्वारगाथेयम् । जिनभवनकारणविधिः, किंविधः ? इत्याह - शुद्धा निर्दोषा, भूमिः 44 १. °भावं° इति श्राद्धजीतकल्पवृत्तौ प० १६ ॥ २. पयठवणा - C. L. श्राद्धविधिवृत्तौ च ॥ ३. सप्तक्षेत्र्यां धनवपनाधिकारे -C. मूल ॥ ४. उ-मु० पञ्चाशके । C. - नास्ति । अ-L.P. ।। D:\new/d-2.pm5\ 3rd proof

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500