Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
आलोचनास्वरूपम्-श्लो० ६८॥]
[४३९ शुभोपयोगादीत्यत्रादिशब्दान्निमित्तशास्त्रगतशुभभावपरिग्रहः । इति मूलद्वारगाथा विवरणम् । एवं विधिना शुद्धिः कार्या, यथा भावतो निःशल्यत्वं स्यात् , भावशल्यं तु स्वकृतदुश्चरितस्य सम्यक् परसाक्षिकमप्रकाशनम् । यतः -
"सम्मं दुच्चरिअस्सा, परसक्खिअमप्पगासणं जं तु ।
एअं च भावसल्लं, पण्णत्तं वीअरागेहिं" ॥१॥[पञ्चा.१५/३६ ] अत्र परसाक्षिकमित्युक्तेश्च स्वयमालोच्य स्वकल्पनया शुद्धौ कृतायामपि सशल्यतैवेति ज्ञापितम् । यतः -
"आलोअणं अदाउं, सइ अण्णंमि तहऽप्पणो दाउं।
जे वि हु करेति सोहिं, ते वि ससल्ला विणिद्दिट्ठा" ॥१॥[ पञ्चा.१५/३९] अनेन च परसद्भावे परस्यैव तां यच्छन् शुद्ध्यतीत्युक्तम् यदाह -
"छत्तीसगणसमन्नागएण तेण वि अवस्सकायव्वा ।
परसक्खिआ विसोहि, सु? वि ववहारकुसलेणं" ॥१॥[ श्रा.जी./१६] पराभावे तु आत्मनोऽपि यच्छन् शुद्ध्यति, केवलं सिद्धान् साक्षीकृत्य । यदाह - सिद्धावसाणे अत्ति [ ] । एवं यथा तथापि नि:शल्यतया भवितव्यम् , सशल्यमरणे च महान् दोषः । यतः -
"जं कुणइ भावसल्लं, अणुद्धिअं उत्तमट्ठकालम्मि ।
दुल्लहबोहीगत्तं, अणंतसंसारीअत्तं च" ॥१॥[ पञ्चा.१५/३८] इत्यादिशल्यानुद्धरणविपाकदर्शिनैव सम्यग् आलोचयितुमुत्सह्यते । यतः -
"संवेगपरं चित्तं, काऊणं तेहिँ तेहिँ सुत्तेहिं ।
सल्लाणुद्धरणविवागदंसगाईहिं आलोए" ॥१॥ [ पञ्चा.१५/३५ ] आलोचकस्य दश दोषानाह - "आकंपइत्ता अणुमाणइत्ता जं दिटुं बायरं व सुहुमं वा।।
छन्नं सद्दाउलयं, बहुजणअव्वत्ततस्सेवी" ॥१॥ [ आ.वि./११] 'आकम्प्य' वैयावृत्त्यादिना गुरुमावालोचयति, यथा स्तोकं प्रायश्चित्तं दत्ते इत्यभिप्राये प्रथमो दोषः १। 'अनुमान्य' अनुमानं कृत्वा लघुतरापराधनिवेदनेन मृदुदण्डादित्वमाचार्यस्याकलय्य २। यत्परैदृष्टं तदालोचयति न त्वदृष्टम् ३। बादरमालोचयति न तु सूक्ष्मम् ,
१. तुला-श्राद्धविधिवृत्तिः प० १६९ ॥ २. L.P.C. श्राद्धविधिवृत्तौ च । च-मु० ॥
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500