Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
जिर्णोद्धारफलम्-श्लो० ६८॥]
[४४५ प्रवर्त्तन्ते इत्यात्माधिष्ठायकत्वं यतनेति । इयं चान्याकुशलारम्भतो निवर्त्तनान्निवृत्तिरूपैव परमार्थत इति भाव इति जिनभवनकारणविधिः जीर्णोद्धारे त्वेवं विशिष्योपक्रम्यम् यतः
"नवीनजिनगेहस्य, विधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारेण जायते ॥१॥[ ] जीर्णे समुद्धृते यावत्तावत् पुण्यं न नूतने ।
उपमर्दो महांस्तत्र, स्वचैत्यख्यातिधीरपि" ॥२॥[ ] तथा- "राया अमच्चसिट्टी, कोडंबीए वि देसणं काउं।
जिण्णे पुव्वाययणे, जिणकप्पी वा वि कारवइ" ॥१॥[ ] "जिणभवणाई जे उद्धरंति, भत्तीइ सडिअपडिआई।
ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ" ॥२॥[ श्रा.दि./१०० ] जीर्णचैत्योद्वारकारणपूर्वकमेव च नव्यचैत्यकारापणमुचितम् , तत एव सम्प्रतिनृपतिना एकोननवतिः सहस्रा जीर्णोद्धाराः कारिताः, नवचैत्यानि तु षट्त्रिंशत्सहस्रा एव । एवं कुमारपालवस्तुपालाद्यैरपि नव्यचैत्येभ्यो जीर्णोद्धारा एव बहवो व्यधाप्यन्त इति । ___ चैत्ये च कुण्डिकाकलशौरसप्रदीपादिसर्वाङ्गीणोपस्करणकारणं यथाशक्ति कोशदेवदायवाटिकादियुक्तिकरणं च, राजादेस्तु विधापयितुः प्रचुरतरकोशग्रामगोकुलादिदानम् , यथा अविच्छिन्ना पूजा प्रवर्त्तते इति द्वारम् ॥१॥
इत्थं च चैत्ये निष्पन्ने शीघ्रमेव प्रतिमा स्थापयेत् । यदाह षोडशके श्रीहरिभद्रसूरिः
"जिनभवने जिनबिम्बं, कारयितव्यं द्रुतं तु बुद्धिमता । साऽधिष्ठानं ह्येवं, तद्भवनं वृद्धिमद् भवति" ॥१॥[ षोड.७/१]
१. इतोऽग्रे "न चात्र भूखनन-पूरण-दलपाटनानयन-शिलादिघटन-वपनादिमहारम्भदोष(षं)आशङ्क्यः , यतनाप्रवृत्तत्वेन निर्दोषत्वादनेकप्रतिमास्थापन-पूजन-सङ्घसमागम-धर्मदेशनाकरणाद्यनेकधर्मकृत्यानुमोदनाद्यनन्तपुण्यहेतुत्वेन शुभोदर्कत्वाच्च । आहुरपि -
"जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स।
सा होइ णिज्जरफला अज्झत्थविसोहिजुत्तस्स" ॥ इति C. मूलपाठः अधिकः ॥ २ या विइति श्राद्धविधिवृत्तौ ।। ३. C. श्राद्धविधिवृत्तौ च । लेशो मु० ॥ ४. तबिम्ब-इति षोडशके ।।
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500