Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 477
________________ आलोचनास्वरूपम्-श्लो० ६८॥] [४३७ "सल्लुद्धरणनिमित्तं, गीअत्थन्नेसणा उ उक्कोसा । जोअणसयाई सत्त उ, बारसवरिसाइं कायव्वा" ॥१॥ [ पञ्चा.१५/४१, प्रव./८६२ ] इह च शेषविशेषणानुपादनेन यद् गीतार्थग्रहणं कृतम् , तत्सकलोक्तगुणयुक्ताचार्यालाभे संविग्नगीतार्थमात्रस्याप्यालोचनाचार्यत्वस्य ज्ञापनार्थम् इत्यलं प्रसङ्गेन । अथ पूर्वं द्वारगाथायां क्रमेणालोच्यमिति द्वारमुक्तं । तत्प्रकाशनायाह - "दुविहेणणुलोमेणं, आसेवणविअडणाभिहाणेणं। आसेवणाणुलोमं, जं जह आसेविअंविअडे ॥१॥[पञ्चा.१५/१६] आलोयणाणुलोमं, गुरुगवराहे उ पच्छओ विअडे। पणगाइणा कमेणं, जह जह पच्छित्तवुड्डी उ" ॥२॥ [ पञ्चा.१५/१७ ] "व्याख्या –'द्विविधेन' द्विप्रकारेण, 'आनुलोम्येन' क्रमेण, द्वैविध्यमेवाह -आसेवनेन यदानुलोम्यं तदासेवनमेव, विकटनेन यत् तद् विकटनमेवातस्ते एवाभिधाने यस्य तत्तथा तेनासेवनविकटनाभिधानेनालोचनां ददातीति द्वारगाथायां सम्बन्धनीयम् । तत्राद्यं स्वरूपत आह -आसेवनानुलोम्यं तत् यत् येन क्रमेणासेवितं विकटयत्यालोचनाकारीति १। आलोचनानुलोम्यं पुनस्तत् , 'गुरुकापराधान्' महदतिचारान् ‘पश्चात्' लघ्वपराधानन्तरं 'विकटयति' आलोचयति, कथम् ? इत्याह –पणग त्ति समयभाषात्वात् पञ्चक-दशकप्रभृतिना क्रमेण प्रायश्चित्तवृद्धिर्वर्धनं यथा तथा विकटयतीति प्रकृतम् । इह च लघावतिचारे पञ्चकं नाम प्रायश्चित्तम् , गुरुके तु दशकम् , गुरुतरे तु पञ्चदशकमित्येवमादीति । अत्र गीतार्थ आलोचनानुलोम्येनैवालोचयति, कारणं तु गीतार्थगम्यम् , इतरस्त्वासेवनानुलोम्येन, आलोचनानुलोम्यानभिज्ञत्वात् तस्य। अत्र च कारणमतिचाराणां सुस्मरत्वमिति गाथाद्वयार्थः ।। अथ सम्यगितिद्वारं विवृणोति - "तह आउट्टिअदप्पप्पमायओ कप्पओ व जयणाए । कज्जे वाऽजयणाए, जहट्ठि सव्वमालोए" ॥१॥[पञ्चा.१५/१८] तथेतिशब्दो यथाक्रममालोचनाङ्गमेवमाकुट्ट्यादिकृतत्वमपीत्येतदर्थः । आकुट्टिका - उपत्यकरणम् , दर्पो –वल्गनादिः, प्रमादो -मद्यादिः स्मृतिभ्रंशादिर्वा, एषां द्वन्द्वोऽतस्तेभ्यस्तत आकुट्टिकादर्पप्रमादतः, तथा 'कल्पतो वा' अशिवादिपुष्टालम्बनतो वा, कल्पश्च यतनादिविषय इत्यत आह –यतनया यथाशक्ति संयमरक्षारूपया, 'कार्ये वा' प्रयोजने वा १. तुला पञ्चाशकवृत्तिः प० २४२ ॥ २. वृद्धिशुद्धिर्व इति पञ्चाशकवृत्तौ ॥ ३. तथा यथाC. । तथा-इति पञ्चाशकवृत्तौ प० २४२ A || ४. तुला-पञ्चाशकटीका प० २४२ ॥ तथा श° P. || D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500