Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 482
________________ ४४२ ] सा [ धर्मसंग्रहः- द्वितीयोऽधिकारः क्षेत्रम्, दलं चोपादानकारणं काष्टेष्टकादि, तथा भृतकानां - कर्मकराणामनतिसैन्धानम् –अवञ्चनम्, तथा स्वाशयस्य - शोभनाध्यवसायस्य वृद्धिः-वर्द्धनम् , च, तथा ‘यतना’ यथाशक्ति दोषत्यागेनेति द्वारगाथार्थः । अथ शुद्धभूमिं दर्शयन्नाह - "दव्वे भावे अ तहा, सुद्धा भूमी पएसऽकीला य । दव्वेऽपत्तिगरहिआ, अण्णेसिं होइ भावे उ" ॥२॥ [ पञ्चा. ७/१०] द्रव्यतः शुद्धा भूमिः प्रदेशे विशिष्टजनोचितभूभागे, अकीला च शङ्कुरहिता, उपलक्षणत्वादस्थ्यादिशल्यरहिता । भावतस्तु अप्रीतिरहिता अन्येषामिति गम्यम् । षोडशकेऽपि - "शुद्धाऽत्र वास्तुविद्याविहिता सन्न्यायतश्च योपात्ता । न परोपतापहेतुश्च, सा जिनेन्द्रैः समाख्याता ॥१॥ [ षोड.६/४ ] इति । अथ दलद्वारं व्याख्यानयन्नाह - "कट्ठाई वि दलं इह, सुद्धं जं देवतादुववणाओ । णो अविहिणोवणीअं, सयं च काराविअं जं णो" ॥३॥ [ पञ्चा. ७/१७] तत्काष्ठादि दलं शुद्धं यद्देवतोपवनादेः - व्यन्तरकाननादेर्नानीतम्, तदानयने हि तस्याः प्रद्वेषसम्भवादिति । तथा अविधिना - द्विपदचतुष्पदशरीरादिसन्तापजननद्वारेण, नानीतम्, तथा स्वयं यन्न कारितं वृक्षच्छेदेष्टकापचनादिभिः, तच्छुद्धम्। यतः षोडशकेऽपि - — "दलमिष्टकादि तदपि च, शुद्धं तत्कारिवर्गतः क्रीतम् । उचितक्रयेण यत् स्यादानीतं चैव विधिना तु" ॥१॥ [ षोड. ६/७ ] इति । अथ दलस्यैव शुद्धाशुद्धपरिज्ञानोपायमाह - - “तस्स वि अ इमो णेओ, सुद्धासुद्धपरिजाणणोवाओ । तक्कहगहणादिम्मि, सउणेअरसण्णिवाओ जो " ॥४॥ [ पञ्चा. ७/१८ ] तस्य दलस्यापिशब्दाद् भूमेश्चायं शुद्धाशुद्धपरिज्ञानोपायो ज्ञेयः, तयोर्दल-भूम्योः कथाग्रहणपर्यालोचः, ग्रहणं च परतः स्वीकरणम्, तदादिर्यस्यानयनादेस्तत्तथा, तत्र तत्कथाग्रहणादौ, ‘शकुनेतरसन्निपातः ' साधकसाध्यच्छीत्कृतादिनिमित्तसम्बन्धो यः स उपाय इति प्रस्तुतमिति गाथार्थः । १. C. पञ्चाशकटीकायां च । 'सङ्घानम्-मु० ॥ २. L पञ्चाशकप्र० । °म्मी-मु० ॥। ३. साधकाऽसाधकस्वीकृतादिनिमित्त: सम्बन्धः यः स इति पञ्चाशकवृत्तौ ॥ D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500