Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 475
________________ आलोचनादायकस्वरूपम्-श्लो० ६८॥] [४३५ आलोचितातिचाराणां प्रायश्चित्तप्रदानेन शुद्धिं प्रकर्षण कारयतीत्येवंशीलः, इत्येतदर्थस्य कुर्वेत्यागमप्रसिद्धस्य धातोर्दर्शनात् (ग्रं० २८०००) यस्य विकुर्वणेतिप्रयोगः । आचारवत्त्वादिगुणयुक्तोऽपि कश्चिञ्छुद्धिदानं नाभ्युपगच्छतीत्येतद् व्यवच्छेदार्थं प्रकुर्वीत्युक्तम् , च: समुच्चये, तथा न परिश्रवति आलोचकोक्तमकृत्यमन्यस्मै न निवेदयतीत्येवंशीलोऽपरिश्रावी, तदन्यो ह्यालोचकानां लाघवकारी स्यात् , तथा 'निज्जव'त्ति प्राकृतत्वान्निर्यापयति निर्वाहयतीतिनिर्यापकः यो यथा समर्थस्तस्य तथा प्रायश्चित्तं दत्ते इत्यर्थः । तथाऽपायान् दुर्भिक्षदुर्बलत्वादिकानैहिकानर्थान् पश्यति, अथवा दुर्लभबोधिकत्वादिकान् सातिचाराणां तान् दर्शयतीत्येवंशीलोऽपायदर्शी, अयं चात एवालोकस्योपकारी, एतादृशो 'गुरु:' आलोचनाचार्यो भणितो जिनैः ॥१॥ इत्यष्टौ गुरुगुणाः । "आलोअणापरिणओ, सम्मं संपट्टिओ गुरुसगासे । जइ अंतरा वि कालं, करेज्ज आराहओ तह वि" ॥१॥[ श्रा.जी.गा./३९] अथालोचनाचार्येऽपवादमाह - "आयरिआइ सगच्छे, संभोइअइअरगीअपासत्थो। सारूवी य पच्छाकड देवय पडिमाअरिहसिद्धो" ॥३॥ [ श्रा.जी.गा./१२] साधुना श्राद्धेन वा नियमतः प्रथमं स्वगच्छे आचार्यस्य तदयोगे उपाध्यायस्य एवं प्रवर्तिनः स्थविरस्य गणावच्छेदिनो वा आलोचनीयम् । स्वगच्छे पञ्चानामप्यभावे साम्भोगिक एकसामाचारीके गच्छान्तरे आचार्यादिक्रमेणालोच्यम् । तेषामप्यभावे इतरस्मिन्नसाम्भोगिके संविग्ने गच्छे स एव क्रमः, तेषामप्यभावे गीतार्थपार्श्वस्थस्य, तस्याप्यभावे गीतार्थसारूपिकस्य, तस्याप्यभावे गीतार्थपश्चात्कृतस्यालोचयितव्यम् । सारूपिकः शुक्लाम्बरो मुण्डोऽबद्धकच्छो रजोहरणरहितोऽब्रह्मचर्योऽभार्यो भिक्षाग्राही, सिद्धपुत्रः सशिखः सभार्यश्च, पश्चात्कृतस्तु त्यक्तचारित्रवेषो गृहस्थः, पार्श्वस्थादेरपि गरुवद्वन्दनकप्रदानादिविधिः कार्यो. विनयमूलत्वाद्धर्मस्य, यदि तु पार्श्वस्थादिः स्वं हीनगुणं पश्यन् न वन्दनं कारयति तदा तस्य निषद्यामारचय्य प्रणाममात्रं कृत्वा आलोचनीयम् , पश्चात्कृतस्य चेत्वरसामायिकारोपणं लिङ्गप्रदानं च कृत्वा यथाविध्यालोच्यम् , पार्श्वस्थादीनामप्यभावे यत्र राजगृहे गुणशीला १. कुर्व करणे' इति धातुपारायणे तृतीयपरिशिष्टे प० ३६४ ॥ २. L.P. | ग्रं० ९००० मु० ॥ ३. तुला-श्राद्धविधिवृत्तिः प० १६८ ॥ ४. “त्थे-इति श्राद्धजीतकल्पे ॥ ५. "द्धे-इति श्राद्धजीतकल्पे ॥ ६. सारूपिकस्य पार्वे संयतवेषस्य गृहस्थस्य लिङ्गमात्रधारिण इत्यर्थः' इति श्राद्धजीतकल्पवृत्तौ प० ९ ॥ ७. कोरण्टकादौ-इति श्राद्धजीतकल्पवृत्तौ प० ९ ॥ D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500