Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 474
________________ ४३४] [धर्मसंग्रहः-द्वितीयोऽधिकार: महत्यप्यालोचकस्य पापविणे -पापे श्रुते न विषादवान् , प्रत्युताऽऽलोचनादायकस्य तत्तन्निदर्शनगर्भवैराग्यवचनैरुत्साहक इत्यर्थः ॥१॥ पञ्चाशके त्वित्थम् - "तह परहिअम्मि जुत्तो, विसेसओ सुहुमभावकुसलमती । भावाणुमाणवं तह, जोग्गो आलोअणायरिओ" ॥१॥[ पञ्चा.१५/१५] ‘परहिते' परोपकारे, 'युक्त' उद्युक्त उद्यत इत्यर्थः, तथा 'विशेषतः' आचार्यान्तरापेक्षया विशेषेण, सूक्ष्मभावकुशलमतिः, अत एव 'भावानुमानवान्' परचेतसामिङ्गितादिभिर्निश्चायकः, अयम् 'आलोचनाचार्यो' विकटनागुरुः, उक्तगुणकलापशून्यो हि न शुद्धिकरणक्षम इति । आलोचनाचार्यस्यैतेऽष्टौ गुणाः - "आयारवमाहारव, ववहारुव्वीलए पकुव्वी अ। अपरिस्सावी निज्जव, अवायदंसी गुरू भणिओ" ॥१॥[ श्रा.जी.गा./९] व्याख्या-'आचारवान्' ज्ञानासेवाभ्यां ज्ञानादिपञ्चप्रकाराचारयुक्तः, अयं हि गुणित्वेन श्रद्धेयवाक्यो भवति । तथा 'आहारव'त्ति अवधार आलोचकोक्तापराधानामवधारणं तद्वान् , अयं हि सर्वापराधानां यथावधारणासमर्थो भवति । तथा 'ववहार'त्ति मतुब्लोपा व्यवहारवान् आगम-श्रुताऽऽज्ञा-धारणा-जीतलक्षणपञ्चप्रकारव्यवहारान्यतरयुक्तः, व्यवहारवांश्च यथावच्छुद्धिकरणसमर्थो भवति । तत्रागमव्यवहार: केवलमन:पर्यायावधिज्ञानिचतुर्दशदशनवपूर्विषु १। श्रुतव्यवहारोऽष्टाघेका वसानपूर्वधरैकादशाङ्गिनिशीथाद्यशेषश्रुतज्ञेषु २। आज्ञाव्यवहारो दूरस्थगीतार्थाचार्ययोगूढपदैरालोचनाप्रायश्चित्तयोः प्रदानम् ३। धारणाव्यवहारो गुरुणा यदपराधे यद्यथा प्रायश्चित्तं दत्तं तत्तथैवान्यो दत्ते इत्यादि ४। जीतं श्रुतोक्तादपि हीनमधिकं वा परम्परया आचीर्णम् , तेन व्यवहारो जीतव्यवहार: पञ्चमः ५, सम्प्रति मुख्यः । तथा अपव्रीडयति -लज्जयातिचारान् गोपायन्तमुपदेशविशेषैरपव्रीडयति विगतलज्जं करोत्यपव्रीडक: अयं ह्यालोचकस्यात्यन्तमुपकारको भवतीति । तथा 'पकुव्वी'त्ति १. अपरिस्सावीय बोद्धव्वो-इति पञ्चाशके ।। २. 'व्यवहारवान् प्ररूपणादिप्रकारेण व्यवह्रियते अपराधजातं प्रायश्चित्तप्रदानतो येन स व्यवहारः, आगमादिकः पञ्चप्रकारः' इति श्राद्धजीतकल्पवृत्तौ प० ७ ॥ ३. तुला-श्राद्धविधिवृत्तिः प० १६८ ॥ ४. केवलि° इति श्राद्धविधिवृत्तौ प० २७ B || ५. श्रुतोक्तापतितो-इति श्राद्धविधिवृत्तौ ।। D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500