Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 472
________________ ४३२] [ धर्मसंग्रहः- द्वितीयोऽधिकारः "अप्पुव्वनाणगहणे, सुअभत्ती पवयणे पभावणया । एएहिं कारणेहिं, तित्थयरत्तं लहइ जीवो" ॥१॥ [ उप.प./५०२ ] तथा - "कारणादधिकां मन्ये, भावनातः प्रभावनाम् । भावना मोक्षदा स्वस्य, स्वान्ययोस्तु प्रभावना" ॥२॥[ ] इति १०| तथा गुरुयोगे जघन्यतोऽपि प्रतिवर्षमालोचना गुरुभ्यो दातव्या । यतः – "प्रतिसंवत्सरं ग्राह्यं, प्रायश्चित्तं गुरोः पुरः । शोध्यमानो भवेदात्मा, येनादर्श इवोज्ज्वलः " ॥१॥ आवश्यक निर्युक्तौ तु तस्या: काल एवमुक्तः "पेक्खिअचाउम्मासिअ, आलोयण णिअमसो उ दायव्वा । गहणं अभिग्गहाण य, पुव्वग्गहिए णिवेदेउं" ॥१॥[पञ्चा.१५/१०] प्रथममालोचनेति कः शब्दार्थः ?, उच्यते, आ सामस्त्येन स्वगताकरणीयस्य वागादियोगत्रयेण गुरोः पुरो भावशुद्धया प्रकटनामालोचना । यतः पञ्चाशके - 'आलोअणं अकिच्चे, अभिविहिणा दंसणं ति लिंगेहिं । वइमाइएहिँ सम्मं, गुरुणो आलोयणा णेआ" ॥१॥ [ पञ्चा.१५/२] तद्विधिश्चायं श्राद्धजीतकल्पपञ्चाशकाद्युक्तो । यथा - "एत्थ पुण एस विही, अरिहो अरिहंमि दलइ अ कमेणं । , सेवणाइणा खलु सम्मं दव्वाइसुद्धस्स" ॥१॥ [पञ्च.१५/८ ] व्याख्या –अत्र –आलोचनायामेष - वक्ष्यमाणो विधि: - कल्पः, तद्यथा - अर्ह: - आलोचनादानोचितः, अर्हे - आलोचनादानयोग्ये गुरौ विषयभूते, ददाति - प्रयच्छति, तथा क्रमेण, किंविधेन तेन ? इत्याह - आसेवनादिना, आदिशब्दादालोचनाक्रमग्रहः । आसेवनाक्रमेण आलोचनाक्रमेणेत्यर्थः, तथा 'सम्यक्' यथावत्, आकुट्टिकादिभावप्रकाशनतः, तथा द्रव्यादि ४ शुद्धौ सत्यां, प्रशस्तेषु द्रव्यादिष्वित्यर्थः, इति द्वारगाथा । अथार्हद्वारविवरणं – 44 "संविग्गो उ अमायी, मइमं कप्पट्ठिओ अणासंसी । पण्णवणिज्जो सड्डो, आणाउत्तो दुकडतावी ॥१॥ [ पञ्चा.१५/१२] १. कारणादधिकां मन्ये भावनातः प्रभावनाम् - L.C. नास्ति । 'प्रकारेणाधिका युक्तं भावनातः प्रभावना' इति अत्रैव उत्तरार्धं श्राद्धविधिवृत्तौ प० २७ A ॥ २. चाउम्मासिअ वरिसे आलो० इति श्राद्धविधिवृत्तौ ॥ ३. सुद्धी - इति पञ्चाशके ॥ D:\new/d-2.pm5\3rd proof

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500