Book Title: Dharma Sangraha Part 1
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
वार्षिककृत्यानि – श्लो० ६८ ॥ ]
[ ४३१
जिनगृहे स्नपनं स्नात्रम्, तदपि प्रत्यहं पर्वसु वा करणाशक्तेनापि प्रतिवर्षमेकैकं साडम्बरसमग्रसामग्रीमेलनादिपूर्वं कार्यम् ४।
तथा देवद्रव्यवृद्ध्यर्थं प्रतिवर्षं ऐन्द्री अन्या वा माला यथाशक्ति ग्राह्या, एवं नवीनभूषणचन्द्रोदयादि यथाशक्ति मोच्यम् ५।
तथा सर्वाङ्गाभरणविशिष्टाङ्गपत्रभङ्गीरचन-पुष्पगृहकदलीगृहपुत्रिकाजलयन्त्रादिरचना-नानागीतनृत्याद्युत्सवैर्महापूजा रात्रिजागरणं च कार्ये ६-७ ।
श्रुतज्ञानस्य पुस्तकादेः कर्पूरादिना पूजामात्रं सर्वदाऽपि सुकरम्, तदशक्तेनापि प्रतिवर्षमेकशः कार्या ८|
तथा नमस्कारावश्यकसूत्रोपदेशमालादिज्ञानदर्शनविविधतपःसम्बन्धिषूद्यापनेषु जघन्यतोऽप्येकैकं तत्प्रतिवर्षं विधिवत्कार्यम्, नमस्कारस्योपधानोद्वहनादिविधिपूर्वकमालारोपणेन आवश्यकादिसूत्राणाम् । एवं गाथासङ्ख्यचतुश्चत्वारिंशदधिकपञ्चशत्यादिमोदकनालिकेरादिढौकनादिना, उपदेशमालादीनां सौवर्णादिगर्भदर्शनमोदकलम्भनादिना, दर्शनादीनां शुक्लपञ्चम्यादिविविधतपसामपि तत्तदुपवासादिसङ्ख्यनाणकवर्तुलिकानालिकेरमोदकादिनानाविधवस्तुढौकनादिनोद्यापनानि कार्याणि ९ ।
तीर्थप्रभावनानिमित्तं प्रतिवर्षमेकैकशोऽपि गुरुप्रवेशोत्सवसङ्घपरिधापनिका प्रभावनादि च कार्यम् । तत्र गुरुप्रवेशोत्सवः सर्वाङ्गीणप्रौढाडम्बरचतुर्विधश्रीसङ्घसम्मुखगमनश्रीगुर्वादिसङ्घसत्कारादिना यथाशक्ति कार्यः । यतः – “ अभिगमणवंदणनमंसणेण " [ उपदेशमाला/१६६ ] इत्यादि । न च साधूनां प्रवेशोत्सवोऽनुचित इति वाच्यम्, आगमे उपेत्य तत्करणस्य प्रतिपादनात् । तथाहि साधोः प्रतिमाधिकारे व्यवहारभाष्यम् - “तीरिअ उब्भामगनिउगदरिसणं सन्निसाहुमप्पाहे ।
डिभोइअ असई, सावगसंघो व सक्कारं ॥१॥ [ व्य. भा. / ८०८] अस्या भावार्थोऽयं –प्रतिमासमापकः साधुः प्रत्यासन्नग्रामे बहुसाधुगमनागमनस्थाने आत्मानं दर्शयति । दर्शयंश्चात्मानं प्रतिमां समाप्यागतोऽहमिति कथयति, ततो गुरवो राजादीन् कथयति –यदमुको महातपस्वी समाप्ततपा इति महता सत्कारेण गच्छे प्रवेशनीय इति राजा, तदभावे ग्रामाधिकारी, तदभावे समृद्धश्रावकस्तद्भावे च चतुर्विधः सङ्घः सत्कुरुते, जीतमेतदिति । तथा सङ्घस्यापि नालिकेरप्रदानादिरूपा प्रभावना कार्या, शासनप्रभावनायाश्च तीर्थकृत्त्वादिफलत्वात् । उक्तं च -
१. नृत्ता' इति श्राद्धविधिवृत्तौ प० २५९ ॥
D:\new/d-2.pm5\3rd proof

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500